________________ 132 दिवाकरकृता किरणावलीकलिता चतुर्थी द्वात्रिशिका। असमीक्ष्य वक्ता महान्न भवति, जिनस्त्वसमीक्ष्य वक्ताऽपि महानित्यहो विभूतिरस्येत्युपदिशति असमीक्षितवाङ्महात्मसु / प्रचयं नैति पुमान् महात्मसु / असमीक्ष्य च नाम भाषसे परमश्वासि गुरुमहात्मनाम् // 28 // असमीक्षितवागिति / “पुमान् महात्मसु असमीक्षितवाग् महात्मसु प्रचयं नैति, च-पुनः नाम असमीक्ष्य भाषसे महात्मा परमो गुरु चासि इत्यन्वयः / पुमान् पुरुषः, महात्मसु महनीयगुणवत्स्वात्मसु, असमीक्षितवाग अपर्यालोचितवचनः, महात्मसु प्रचयं वृद्धिं, नैति न प्राप्नोति, महात्मनां गणनाप्रसङ्गे तस्य गणनं न भवति, च पुनः, नामेति कोमलामन्त्रणे, हे वीर ! त्वं केवलज्ञानवान् यथादृष्टमेव भाषसे, न तत्र तव पर्यालोचन किञ्चिदिति, असमीक्ष्य पर्यालोचनमकृत्वैव, भाषसे वक्षि, एवमपि महात्मनां योगिनां, परमः उत्कृष्टः, गुरुश्च, असि भवसि इत्यर्थः // 28 // सर्वदा व्यवस्थितसमतास्वभावेन भगवन्तमभिष्टौतिभवबीजमनन्तमुज्झितं विमलज्ञानमनन्तमर्जितम् / न च हीनकलोऽसि नाधिकः समतां चाप्यनिवृत्त्य वर्तसे // 29 // भवबीजमिति / "अनन्तं भवबीजमुज्झितम् , अनन्तं विमलज्ञानमर्जितम्, हीनकलो न चासि, अधिको नासि, च-पुनः, समतामप्यनिवृत्त्य वर्तसे" इत्यन्वयः / हे वीर ! भवता अनन्तम् अनन्तसङ्ख्यं, भवबीजं भवस्य-संसारस्य, बीजं-कारणं कामक्रोधादिजनितं प्रत्यात्मप्रदेशसम्पृक्तं कर्म, उज्झितं परित्यक्तं, शुक्लध्यानादिना विनाशितम् , अनन्तम् अन्तरहितमविनाशि, अनन्तविषयकत्वाद् वाऽनन्तम् , विमलबानम् अशेषज्ञानावरणोयकर्मलक्षणमलरहित