________________ दिवाकरकृता किरणावलीकलिता चतुर्थी द्वात्रिंशिका / 131 च एवं सत्यपि पुनः, अक्रियः स्वभावत ऊबैकगतिस्वभावो न स्वभावतोऽधस्तियंगादिक्रियावान्, कुरुते कर्म पुमान् मनुजशरीरावच्छिन्नः स्वर्गादिफलजनकं कर्म कुरुते, किन्तु फलैः स्वर्गादिफलैः, न युज्यते न सम्बध्यते, मनुजशरीरनाशे तदवच्छिन्नस्यात्मनोऽपि नाशान्न स तैः फलैः सम्बध्यते किन्तु देवादिशरीरावच्छिन्नो अन्य एवात्मा तत्कर्मणोऽकर्तव तत्फलैः सम्बध्यते, च पुनः, फलभुक तत्कभफलोपभोक्ता देवादिः, अर्जनक्षमः तत्कर्मोपार्जनसमर्थः, न च नैव, एवंप्रकारेण यैविदितः यैरपेक्षाभेदावगतिनिपुणैर्शातः, हे मुने ! तैः पुरुषैः, त्वं विदितोऽसि, ज्ञातोऽसि त्वदुपदिष्टतत्त्वाभिज्ञ एव तथाविधतत्त्वोपदेष्टारं भवन्तं ज्ञातुं विदग्ध इत्यर्थः // 26 // यया दिशा भगवत्सदृशो भगवानिवाभवो भवति तां दिशमुपदर्शयतिस्वत एव भवः प्रवर्तते स्वत एव प्रविलीयतेऽपि च / स्वत एव च मुच्यते भवा दिति पश्यंस्त्वमिवाभवो भवेत् // 27 // स्वत एवेति / “भवः स्वत एव प्रवर्तते, च-पुनः स्वत एव प्रविलीयतेऽपि, च-पुनः स्वत एव भवान्मुच्यते, इति पश्यंस्त्वमिवाभवो भवेत्' इत्यन्वयः / भवः संसारः यस्माद् भवस्वाभाव्यात् प्रवर्त्तते सोऽपि स्वभावः स्वभावस्वभाववतोरभेदाद् भव एवेति कृत्वा, स्वत एव स्वस्मादेव, प्रवर्तते भवति, च पुनः, स्वत एव यस्माद् विनाशमुपयाति भवः स स्वभावोऽपि संसारादभिन्न एवेति कृत्वा, स्बत एव स्वस्मादेव, प्रविलोयतेऽपि विनश्यत्यपि, च पुनः, स्वत एव औपाधिकोऽस्य बन्धो न स्वाभाविक इत्युपाधिनिवृत्तौ स्वस्मादेवादयं पुरुषः, भवात् संसारात्, मुच्यते मुक्तो भवति, इति एवं, पश्यन जानन् , . त्वमिव त्वं जिनो यथा, अभवः संसाररहितस्तथा, अभवः भवरहितः, भवेत् स्यात् , इत्यं ज्ञाता केवल्येव संपद्यते, केवली च भवरहित ति युक्त एवेति // 27 //