________________ 130 दिवाकरकृता किरणावलीकलिता चतुर्थी द्वात्रिंशिका। न परोऽस्तीति / 'त्वयि प्रतिबुद्धप्रतिभस्य कश्चन परो नास्ति, कश्चनापरो न. चास्ति, प्रतिसंख्यानपदातिपूरुषस्तावविभज्य न च पश्यति' इत्यन्वयः। हे वीर ! त्वयि जिनस्वरूपे, प्रतिबुद्धप्रतिभस्य प्रतिबुद्धा-सम्यगाविभूता, प्रतिमा-प्रातिभं ज्ञानं, यतः परोपदेशादिकमन्तरेणैवासाधारणरूपेण यथावज्जिनमवगच्छति' इति यस्य स प्रतिबुद्धप्रतिभस्तस्य, जिनस्वरूपविषयकाविर्भूतप्रातिभ. ज्ञानवतः, पुंसः, कश्चन कोऽपि, परः अन्यापेक्षयोत्कृष्टः, नास्ति न विद्यते, तथा कश्चन अपरः अन्यापेक्षयाऽपकृष्टः, न चास्ति न विद्यते, जिनस्वरूपमवगच्छन् निश्चयदृष्टयाऽविशेषेण तथाविधमेव सर्वं जानन् विरुद्धधर्मस्य भेदसाधकस्यावगतत्वभावादगृहीतभेद एव सर्वत्रेत्यर्थः; नन्वेवं परापरविवेकाभावात् कञ्चन योग्यं न मूर्धानमधिरोहयेत् , अयोग्यमपि कञ्चन प्रणमेदित्युन्मत्तता स्वस्य प्रकटिता स्यादत आह-प्रतिसंख्यानपदातिपूरुषः प्रतिपदमेतत् स्थानं सजीवमेतत् स्थानं निर्जीवमिति गणनपुरस्सरमग्रे पदं निदधाति यः स प्रतिसंख्यानपदातिः, स चासौ पूरुषश्च प्रतिसंख्यानपदातिपूरुषः, एतादृशो जिनभक्तः पुमान् परमपरं च विभज्यैव पश्यतीत्याह-तौ परापरौ, अविभज्य विभाग-विवेकमकृत्वा, न च नैव, पश्यति साक्षात् करोति, एव च विविच्य परापरसाक्षात्कारमन्तरेण लौकिकव्यवहारः समीचीनो न सम्भवति, विहरणमपि पदेनैव जिनभक्तस्य सजीवनिर्जीवादिमार्गप्रदेश वगममन्तरेण न सम्भवति, एतादशो जिनभक्तो व्यवहारोपयोगिएरापरज्ञ एव, किन्तु निश्चयतस्तस्य परापरौ न विद्यतेत्यर्थः // 25 // पुरुषविशेषैरेव ज्ञातो जिन इत्युपदर्शयति-- गतिमानथ चाक्रियः पुमान् कुरुते कर्म फलैर्न युज्यते / फलभुक् च न चार्जनक्षमो विदितो यैर्विदितोऽसि तैर्मुने ! // 26 // गतिमानिति। “पुमान् गतिमान् अथ चाक्रियः कर्म कुरुते फलैन युज्यते, फलभुक् च अर्जनक्षमो न च, यैर्विदितः, हे मुने तैर्विदितोऽसि' इत्यन्वयः / पुमान् पुरुषः, गतिमान् कार्मणशरीरसंबन्धादूर्वाधस्तिर्यग्गतिक्रियावान् , अथ