________________ दिवाकरकृता किरणावलीकलिता चतुर्थी द्वात्रिंशिका / प्राणिनां प्रत्यक्षसिद्धम्, दुःखम् अशातम्, स्वयं कृतं यदात्मगतं तेनैवात्मना कृतं, न च प्रवृत्तिं प्रतीष्टसाधनताज्ञानस्य कृतिसाध्यताज्ञानस्य चिकीर्षायाश्च कारणत्वेन अनिष्टे दुःखे उकानां त्रयाणामभावेन स्वप्रवृत्तेरनुत्पत्त्या तज्जन्यत्वासम्भवात्, परैः यत्र दुःखोत्पादस्तद्भिन्नैः. कृतं न च अन्यात्मगुणं प्रति उपादानत्वाद्यभावेन परेषां तत्का. रणत्वासम्भवात्, प्रत्येकं स्वकृतत्वस्य परकृतत्वस्य चाभावादेव उभयजं स्वपरोभयजन्यं, न नेव, स्वकृतत्व-परकृतत्व-स्वपरोभयकृतत्वानामभावे दुःख केनापि कृतस्वाभावादकृतमेवेत्यपि न वाच्यमित्याह-अकृतं न चेति, यद्यकृतं तदाऽऽकाशादिवत् स्यादेव, गगनकुसुमादिवन्न स्यादेव न तु कदाचित् स्यात्, दुःखं चेदं सांसारिक कादाचित्कमिति कादाचित्कत्वान्यथानुपपत्त्या केनापि कृतमेव तन्न विकृतम्, भवतु कादाचित्कत्वा न्यथानुपपत्त्या येन केनापि कृतमेव तत्, विशेषतस्तस्य वक्तुमशक्यत्वेऽपि प्रतिक्षेप्तुमशक्यत्वादित्यत आह-नियतं घ च पुनः, नियतं-देवदत्तस्य दुःखं देवदत्तात्मन्येव न यज्ञदत्तात्मनि, यज्ञदत्तस्य दुःखं यज्ञदत्तात्मन्येव न देवदत्तात्मनीत्येवं नियतं दुःखं नानियतकार पकमित्यर्थः, ननु परमाणोरणुपरिमाणस्याकाशादेः परममह परिमाणस्य यथा मित्यत्वादेव नियतत्वं तथा दुःखस्यापि नित्यत्वादेव नियतत्वं भविष्यतीत्यत आह--अक्षरात्मक न च न क्षरति-न विनश्यतीत्यक्षरं नित्यं तदात्मकं दुःखं न च, अनिष्टसंप्रयोगेष्टवियोगादिना तदुत्पादस्य स्वसाक्षात्कारानन्तरं तद्विनाशस्थानुभूयमानत्वेन तस्य नित्यत्वासम्भवात्, इति एवंप्रकारेण, विदुषां पण्डितानां, हे वीर ! त्वया उपपादितं युक्त्या प्रतिपादितमित्यर्थः // 24 // तव भक्तः समदृष्टिभवति, जीवहिंसानिवृत्त्यर्थं सम्यगवलोक्योच्चावचमार्गगणनपुरस्सरं पदातिर्गच्छतीत्याह न परोऽस्ति न चापरस्त्वयि प्रतिबुद्धप्रतिभस्य कश्चन / न च तावविभज्य पश्यति प्रतिसंख्यानपदातिपूरुषः // 25 //