________________ 128 ब दिवाकरकृता किरणावलीकलिता चतुर्थी द्वात्रिंशिका / इयम् एवंस्वरूपा; अचिन्त्यवत् अचिन्त्यपदार्थस्येव, गतिः केवलप्रक्रिया, चिन्त्या चिन्तनीया इत्यर्थः // 2 // तव चेष्टितं न त्वद्विरोधिनो दृष्टिपथमेतीत्याहवपुषो न बहिर्मनःक्रिया मनसो नापि बहिर्वपुःक्रिया / न च तेन पृथक् न चैकधा द्विषतां तेऽयमष्टिगोचरः // 23 // वपुष इति / "वपुषो बहिर्मनक्रिया न नापि मनसो बहिर्वपुःक्रिया ते, पृथगू नेति न च, च-पुनः एकधा न चेति तेऽयं द्विषतामदृष्टिगोचरः” इत्यन्वयः / हे वीर ! तव मते मनः क्रिया मनस: प्रवृत्तिः, वपुषः शरीरस्य, बहिः शरीरादन्यत्र, न नैव, भवता मनसा यत् किमपि क्रियते तच्छरीरान्तरे एव, नापि न पुनः, मनसः अन्तःकरणस्य बहिः यःक्रिया शरीरस्य क्रिया शरीरचेष्टितं सर्व मनःप्रविष्टमेव एवं वपुर्मनःक्रिययोरन्योऽन्य विभावेऽपि, ते वपु-र्मनःक्रिये पृथग, विभिन्ने, न नैव, इति न च निषेधद्वयस्य विधिदाढर्यार्थत्वाद् वपुर्मनःक्रिये पृथगेव पृथत्त्वे सति तयोरेकत्वं नेत्यपि न च वाच्यं तयोरेकत्वस्यापि सद्भा. वादित्याह-च पुनः, वपुमनःक्रियय:, एकधा एकप्रकार एकत्वं न चति न च, अत्रापि निषेधद्वयेन विधिदाढयमिति तयोरे कत्वमपि, एतेन स्याद्वा दे वपुर्मन - क्रिययो कथञ्चिद्भेदाभेद एव न सर्वथा भेदो नापि सर्वथाऽभेद इत्यावेदितम्, ते तब सम्मत इति शेषः, अयम् अनन्तरः प्रदर्शितः प्रकार:, द्विषतां त्वन्मतानभ्यु. पगन्तृणामे कान्तवादिनाम्, अदृष्टिगोचरः दृष्टिविषयो न भवति स्याद्वादस्वरूपानभिज्ञत्वात्, एकान्तकदाग्रहग्रहिलत्वादित्यर्थः // 23 // विदुषां सांसारिकदुःख स्वकर्मक तत्वादेव नियतं नान्यथेति भवतव निष्पकिनमित्युपदर्शयतिन च दुःखमिदं स्वयं कृतं न परैनों पजं न चाकृतम् / नियतं च न चाक्षरात्मकं विदुषामित्युपपादितं त्वया / 24 / / न चेति / इदं दुःखं स्वयं कृतं न च, परैः कृतं न .उभयज न अकृतं न च, च पुनः नियतम् अक्षरात्मकं च न, इति विदुषां त्वयोपपादितम्" इत्यन्वयः / इदम् आध्यात्मिका-ऽऽविमोतिका-ऽऽधिदैविकभेदेन त्रिविधं सर्व