SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ दिवाकरकृता किरणावलीकलिता षष्ठी द्वात्रिंशिका / 187 यथाधर्ममिति / “यस्तु वादी यथाधर्म साध्यं विभज्य गमयेत् तस्य कुतोऽवसादः, यदेव विद्यमानं साध्येनोच्यते तदेवान्यत्र विजयं संदधाति'' इत्यन्वयः। यस्तु वादी यः कश्चिदनिर्धारितविशेषस्वरूपः कथकः, यथाधर्म साध्य विभज्य स्वकीयधर्मानातिक्रमेणापेक्षाभेदेन साधनीयं वस्तु प्रतिनियतधर्मिणि एतदपेक्षयेतद्र पेणायमेतस्मिन्नित्येवं निमित्तधर्मसाध्यधर्मिणो विभाग कृत्वा, गमयेत् मध्यस्थसमक्षं प्रतिवादिन मुद्दिश्य प्रतिपादयेत् , तस्य वादिनः, कुतः कस्मात्, अवसादः अपहतिः, न कुतोऽप्यवसादः, यदेव विद्यमानं यद्येत द्रूपेण यथा विद्यमानं परमार्थ वस्तु, साध्येन साधनीयधर्मेग, उच्यते कथ्यते, तदेव तद्वस्त्वेव, अन्यत्र स्वानभ्युपगन्तरि प्रतिवादिनि, विजयं पराजय तत्त्रतिमल्लभूते वादिनि जयं, वि गतो जयति- व्युत्पत्तौ पराजय इति, विशिष्टो जय इतिव्युत्पत्तौ जय इति विजयादेन लभ्यते, संदधाति संस्थापयतीत्यर्थः // 31 // स्याद्वादिनामस्माकं भगवान् अर्हन् जिन एव शास्ता तदुपदिष्टमार्गेण शीघ्रमेव परमार्थमोक्ष सुखावाप्तिरित्यभिप्रायवान् स्तुतिकार आह मया तावद् विधिनाऽनेन शास्ता जिनः स्वयं निश्चितो वर्धमानः / यः संधास्यत्याप्तवत् प्रतिभानि ___ स नो जाड्यं भंस्यते पाटवं चेति // 32 // मयेति / अन्वयो यथाश्रुतानुसार्येव, मया सिद्धसेनदिवाकरेण, तादिति वाक्यालङ्कारे, अनेन विधिना अन्यशासनार्थबाधित्वाद्यभिमानपूर्वकस्याद्वादार्थाबाधितत्वादिनिर्णयप्रकारेण, जिनो राग-द्वेषाद्यखिलान्तरशत्रुजयस्वभावः, वर्धमानः अन्तिमतीर्थकृत् , शास्ता समीचीनशासनप्रणयनेन मोक्षमार्गोपदेष्टा, स्वयं अन्योपदेशमन्तरेण तदुपदिष्टागमार्थाबाधितत्वादिनिष्टङ्कनेन, निश्चितः निर्णीतः, यः जिनः, आप्तवत् स्वजननी-जन कादिवत् , प्रतिभानि प्रतिभोद्भवानि ज्ञानानि, संधास्यति समीचीनतया भावनापरम्परातो हृदये स्थापयिष्यति, स जिनः, नः अस्माकं, जाड्यं जडतां, भस्यते एवं करामलकवत् पदार्थजात.
SR No.004300
Book TitleDwatrinshad Dwatrinshika
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherVijaylavanyasuri Granthmala
Publication Year1977
Total Pages694
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy