________________ 1.8 दिवाकरकृता किरणावलिकलिता चतुर्थी द्वात्रिंशिका / धादेकत्र न सम्भवः, अणौ अणुपदार्थे, विभुता न च सम्भवति, अणुत्वविभुत्वयोरपि विरोधात् , भवतस्तु जिनस्य मते पुनः, प्रतिबोधावहितैः प्रत्येकपदार्थावबोधावधानः, तथा च महति अणुता, अणौ विभुता च, तन्न च महदणु न, अणु च विभु न, इत्येवं विनिश्चितं विशेषेण-अपेक्षाभेदेन निर्णीतम् , यदेवैकापेक्षया महत् तदेवान्यापेक्षयाऽणु, यदेवैकापेक्षयाऽणु तदेवान्यापेक्षया विभिवत्येवमनेकान्तवादे सर्व समञ्जसमित्यर्थः // 19 // यदेवेदं तीर्थ भवता दर्शितं तत् सर्वदा तथैव तद्विषयस्य नान्यथा भावः, न च तद्विरुद्धं शासनमित्याह सुख-दुःखविवेकसाधनं / विहितं तीर्थमिदं जिन ! त्वया / न च सोऽस्त्यपयाति यस्तयो रथवाऽस्य प्रतिषिद्धशासनः // 20 // सुख-दुःखविवेकसाधनमिति ! "हे जिन ! त्वया इदं तीर्थ सुखदुःखविवेकसाधनं विहितम् , यस्तयोरपयाति स न चास्ति, अथवाऽस्य प्रतिषिद्धशासनो न चास्ति' इत्यन्वयः / हे जिन ! त्वया भवता, इदं परिदृश्यमानं, तीर्थ द्वादशाङ्गीरूपशास्त्रसन्दोहः, तदाधारभूतचतुर्विधसंघो वा, सुख-दुःखविवेकसाधनं सुख-दुःखयोः- सातावेदन या-ऽसातावेदनीययोः, विवेकस्यविविच्य ग्रहस्य, साधनं कारणं, विहितं प्रकाशितं निर्मितम् , यः कश्चित् , तयोः सुख-दुःखयोः, तत्साधनयोर्वा, अपयाति अपगच्छति, न समवतरती. त्यर्थः, स न चास्ति, अयं भावः-यः किल सुखे दु:खे तत्साधने वा न समवतरति तादृशो जगति न कोऽपि जीवः पदार्थो वाऽस्ति / अथवा, यः अस्य प्रवर्तमानभवत्तीर्थस्य, प्रतिषिद्धशासनः प्रतिषिद्ध-निषिद्ध, शासनम्-अनुशासनं कथनं वा यस्य तादृशः, स न चास्ति न विद्यते, अयमाशयः-भवदीय. शासने यस्य निषेधोऽलीकता वा तादृशो न कोऽपि जोवः पदार्थो वाऽस्ति / "प्रतिषिद्धशासनम्" इति पाठे तु- भवदीयशासनस्य यद् यद् निषिद्धं