________________ दिवाकरकृता किरणावलीकलिता चतुर्थी द्वात्रिंशिका / 127 * त्वयि तत् तु यथार्थदर्शनात् सकलं वीर ! यथार्थदर्शनम् // 18 // अविकल्पसुखमिति / “अल्पमेधसः केवलं सुखेष्वविकल्पसुखमिति ब्रुवते, हे वीर ! तत् तु त्वयि यथार्थदर्शनात् सकलं यथार्थदर्शनम्" इत्यन्वयः / अल्पमेधसः अल्पा-अल्पविषयिणी स्वल्पकालस्थायिनी वा, मेधा-धारणावती बुद्धिर्येषां ते अल्पमेधसः, स्वल्पविषयकधारणावन्तः स्वल्पकालस्थायिधारणावन्तो वा केचित्, केवलं केवलज्ञानं, सुखेषु अनेकप्रकारसुखेषु मध्ये, अविकल्पसुखं विकल्पज्ञानागोचरसुखम् , इति एवं, ब्रुवते कथयन्ति, हे वीर ! तत् तु केवलं पुनः, त्वयि जिने, यथार्थदर्शनात् अर्थानुसारिसाक्षात्कारात् , भावप्रधाननिर्देशाद् यथार्थसाक्षात्कारत्वात् , सकलं प्रत्यक्ष सांव्यवहारिक-पारमार्थिकमेदेन द्विविधम्, तत्रेन्द्रियजन्यमनिन्द्रियजन्यमित्येवं द्विविधं सांव्यवहारिकम् , चक्षुर्घाण-रसन-त्वक्श्रोत्राणि पञ्चेन्द्रियाणि, तज्जन्यमिन्द्रियजन्यम् , अनिन्द्रियं-मनः, तज्जन्य मानसप्रत्यक्षम् , पारमार्थिकमपि विकल-सकलभेदेन द्विविधम् , तत्र विकलमवधिज्ञान मनःपर्यवज्ञानं च, सकलं सर्वपदार्थसाक्षात्कारिकेवलज्ञानम् , तच्च यथार्थदर्शनं प्रमात्मकमेव प्रत्यक्षम् , एतद्बलादेव यथार्थदर्शी भवानिति व्यपदिश्यते // 18 // एकान्तवादिमते यो महान् स महानेव नाणुः, अणुश्च न विभुः, तव मते त्वपेक्षाभेदेन सर्व समञ्जसमित्याह न महत्यणुता न चाप्यणौ विभुता सम्भवतीह वादिनाम् / ... भवतस्तु तथा च तन्न च प्रतिबोधावहितैर्विनिश्चितम् // 19 // न महतीति / "इह वादिनां महति अणुता न, अणौ विभुताऽपि न च सम्भवति, भवतस्तु प्रतिबोधावहितैः तथा च, तन्न च विनिश्चितम्" इत्यन्वयः / इह वस्तुतत्त्वविचारे, वादिनाम् एकान्तवादिनां, मत इति शेषः, महति महत्पदार्थे, अणुता अणुभावः, न सम्भवति महत्त्वा-ऽणुत्वयोविरो