________________ 126 दिवाकरकृता किरणावलीकलिता चतुर्थी द्वात्रिंशिका / मकरः-वितथपाहः, तेन हतः कवलितो मारितः, विपरीतदर्शनः अनेकान्तस्य विपरीतमेकान्तं दर्शनं यस्य स विपरीतदर्शनः, विरुध्यते विशेषेण रुध्यते न प्रसरति, लोकप्रसिद्धिश्चैवं-ग्राहसंमुखदर्शनो न ग्राहहतो भवति, किन्तु तद्विमुखदर्शन एवेति, अस्त्येवेत्यायेकान्तदर्शनं विपरीतदर्शनं तत्र एकान्तत्वं मिथ्या नास्तित्वादिद्वितीयकोटिव्यवच्छेदाद् , तद्घटितत्वलक्षणतत्कालतत्वादनेकान्तवादिवचनप्रचारानन्तरं न प्रवत्तेत इत्यर्थः // 16 // यः खलु राग-द्वेषादिकलुषः स राग-द्वेषादिरहितोच्चतरस्थानमन्यान् प्रापयितुं न समर्थः, प्रतारकाप्तप्रतारितस्तु मूर्खः स्वाप्तासमानदृष्टौ जिने स्खलनामुपैतीत्याह स्वयमेव मनुष्यवृत्तयः कथमन्यान् गमयेयुरुन्नतिम् / अनुकूलहृतस्तु बालिशः . स्खलति त्वय्यसमानचक्षुषि // 17 // स्वयमेवेति / “स्वयमेव मनुष्यवृत्तयः, अन्यानुन्नतिं कथं गमयेयुः, अनुकूलहृतस्तु बालिशः, असमानचक्षुषि त्वयि स्खलति" इत्यन्वयः / स्वयमेव परापेक्षामन्तरेणैव, मनुष्यस्य-मनुजस्य, वृत्तिः स्वोपकारिणि पुरुषे रागः स्वापकारिणि पुरुष द्वेषो येषां ते मनुष्यवृत्तयः एवंविधार पुरुषाः, अन्यान स्वभिन्नान् , उन्नतिं राग-द्वेषादिरहितत्वेनात्मस्वरूपावाप्त्यादिलक्षणामुन्नति, कथं गमयेयुः 1 न कथञ्चिद् गमयेयुरित्यर्थः, अनुकूलहृतस्तु तु-पुनः, अनुकूलेन-स्वेष्टेन पुरुषेण, हृतः-स्वाभ्युपगनमार्गे आनीतः, बालिशः मूर्खः, हे वीर ! असमानचक्षुषि राग-द्वेषाधारपुरुषनेत्रविपरीतनेत्रे, त्वयि जिने, स्खलति स्खलनामुपैति, त्वदुपदेशमाप्यापि ततः पततीत्यर्थः // 17 // सम्पूर्णानन्दस्वरूपं सुख त्वय्येवेत्युपदर्शयतिअविकल्पमुखं सुखेष्विति ब्रुवते केवलमल्पमेधसः।