________________ दिवाकरकृता किरणावलीकलिता चतुर्थी द्वात्रिंशिका। 125 वचनैरिति / “वादिनो महता भवता वचनैर्विवदन्ति, तैभवान् नोभयथाऽपि, वितथग्राहहतो विपरीतदर्शनो विरुध्यते' इत्यन्वयः / वादिनः सत्त्वाऽसत्त्वायेकान्तवादिनः, महता सत्त्वा-ऽसत्त्वाद्यनन्तधर्माभ्युपगन्तृत्वलक्षणमहत्त्वयोगिमा, भवता जिनेन, वचनैः सत्त्वा-ऽसत्त्वाद्यकैकधर्ममात्रप्रतिपादकवचनैः, विवदन्ति विरुद्धवादं युक्तिरिक्तवादलक्षणविवादं वा कुर्वन्ति, युज्यते च भवता समं तेषां विवादः, यतोऽनेकान्तमभ्युपगच्छता भवताऽस्तित्वमर्थं प्रतिपादयता 'स्यादस्त्येव घटः' इत्यादि वचनं प्रतिपाद्यते, वादिभिस्तु अस्तित्वमर्थं प्रतिपादयद्भिः स्यादिति वचनासमभिव्याहृतमेव 'अस्त्येव घटः' इति वचनं प्रतिपाद्यते, तत्र अस्तित्वं नास्तित्वं वैकान्तमभ्युपगच्छतां नापेक्षावचनप्रयोजनम् , अनेकान्तमभ्युपगच्छतां पुनः स्यात्पदमन्तरेणास्त्येवेति नास्त्येवेति अस्त्वित्व-नास्तित्वोभयधर्माकान्ते वस्तुनि नास्तित्वप्रतिषेधोऽस्तित्वप्रतिषेधश्चाघटमानक इत्यपेक्षाबोधकस्यात्पदादिसमभिव्याहार आवश्यक इति वचनै विवादः सम्भवत्येव, तैः एकान्तवादिभिः समं, भवान् जिनो, उभयथापि वचनेनार्थतश्च, न नैव, वचनव्यत्यासेन विवदन्तीत्यस्यानुकर्षः, कथायां भवन्तं वादीकृत्यैकान्तवादिनः प्रतिवादिनः सम्भवन्ति, यतो भवानेवं ब्रूयातू-घटोऽस्ति नास्ति च, तत्र ये एकान्तेनास्तित्वमभ्यपगच्छन्ति, ते नास्तित्वमनभ्युगपगच्छन्तः 'अस्तित्ववति घटे नास्तित्वं विरोधान्न सभवति' इत्येवं प्रतिवदेयुः, ये एकान्तेन नास्तित्वमभ्युपगच्छन्ति, तेऽस्तित्वमनभ्युपगच्छन्तो 'नास्तित्ववति घटे विरोधादस्तित्व न . सम्भवति' इत्येवं प्रतिवदेयुरित्येवमनेकान्तवादिनं वादीकृत्य सर्वेऽप्येकान्तवादिनः प्रतिवादित्वमात्मन्युररीकृत्य कथां प्रवर्तयितुमुत्सहन्ते, एकान्तवादिनस्तु वादीकृत्य न भवान् प्रतिवादी भवितुमर्हति यतः अस्तित्वाभ्युपगन्तकान्तवादी घटोऽस्त्येवेति ब्रूयात्, घटास्तित्वं च भवानम्युपगच्छत्येवेति कथं तत्प्रतिषेधोद्यतः प्रतिवादी स्यात् ? एवं नास्तित्वाभ्युपगन्तैकान्तवादी घटो नास्त्येवेति ब्रूयात् , घटनास्तित्वं भवानभ्युपगच्छत्येवेति कथं तत्प्रतिषेधोद्यतः प्रतिवादी स्यात् , किन्तु स्यात्पदापमभिव्याहृतमेकान्तवादिवचनं स्यात्पदो. पादानेन संस्कुर्यात् , तदर्थोऽपि च कथञ्चिदर्थानुगमनेनोपपत्ति पद्धतिमान. येदिति, इदं तु स्यात्-वितथग्राहहतः वितथं-मिथ्यात्वं, तदेव ग्राहः