________________ .. 124 दिवाकरकृता किरणावलीकलिता चतुर्थी द्वात्रिंशिका / सर्वनयमये भगवत्प्रवचने सर्वाणि दर्शनानि सन्निविष्टानि, एवमपि ततः भकेष्वेकान्तताकलुषितेषु तेषु न भवतो दर्शनं समुद्रान्तःसन्निविष्टानां नदीनां ततः प्रविभक्तावस्थायां तासु समुद्रादर्शनमिवेत्याह उदधाविव सर्वसिन्धवः समुदीर्णास्त्वयि सर्वदृष्टयः। न च तासु भवानुदीक्ष्यते प्रविभक्तासु सरित्स्विवोदधिः // 15 // उदधाविवेति / “उदधौ सर्वसिन्धव इव त्वयि सर्वदृष्टयः समुदीर्णाः, प्रविभक्तासु तासु भवान् न चोदीक्ष्यते, प्रविभक्तासु सरित्सु उदधिरिव" इत्य न्वयः / उदधौ समुद्रे, सर्वसिन्धवः सर्वा नयः इव यथा, समुदीर्णाः सम्मिलितास्तथा, त्वयि हे वीर ! तवागमे / आगमरूपकार्य-जिनरूपकारणयोरमेदोपचारात् सर्वदृष्टयः सर्वदर्शनानि, समुदीर्णाः सम्यग् मिलिताः, अपेक्षा. मेदेन सर्वदर्शनविषया भवदागमे प्रसङ्गत उपदर्शिताः, एवं सत्यपि प्रविभक्तासु पृथग्भूय तत्तन्नयावलम्बनेन तत्तद्वादिपरिगृहीतासु, तासु दृष्टिषु, भवान् भवदभिमतानेकान्तवादः, न च नैव उदीक्ष्यते अवलोक्यते, प्रविभक्तासु पृथक् पृथक् प्रवाहचलितासु, सरित्सु सिन्धुषु, उदधिः समुद्रः, इव यथा न दृश्यते तथा / सर्वदृष्टय इत्यस्य स्थाने 'नाथदृष्टयः' इति पाठेऽपि ग्रन्थान्तरे दृश्यते // 15 // विधि-निषेधेकै ककोट्यभ्युपगन्तारो वादिनो विधि-निषेधोभयकोट्यभ्युपगन्त्रा भवता समं विवदन्ते, भवास्तु न तैः सम विवदते इति सर्वाभ्युपगमविषयविषयकाभ्युपगमो भवान् परानतिशेते इन्युपर्शयति-- वचनैर्विवदन्ति वादिनो भवता नोभयथापि तैर्भवान् / महता विपरीतदर्शनो वितथग्राहहतो विरुध्यते // 16 //