________________ दिवाकरकृता किरणावलीकलिता चतुर्थी द्वात्रिशिका / 123 रेण, वृद्धिम्-उपचयम् , उपैति प्राप्नोति, ततः तस्मात् , अन्यथा उप. चयकारणविपरीतप्रकारेण, नियत:-अवश्यम्भावी, अस्य वस्तुनः, अपचय: ह्रासः, एवं च यदभिमतं सिध्यति तदाह-तमसा अज्ञानलक्षणान्धकारेण, भवः संसारः, परिचीयते वृद्धिमुपैति, हे जिन ! त्वदनाथेषु येषां न नाथः स्वामी त्वमसि तेषु, कथं कस्मात्, न य॑ति भवो न स्थास्यति ? भवोपचयकारणाज्ञानविरुद्धस्य ज्ञानस्य भवापचयकारणस्याभावाद् भवोऽनुवर्तत एवेत्यर्थः / / 13 / / हे वीर ! जिनमतज्ञानमन्त रेण तत्खण्डनं सम्भवतीत्यतस्तन्मतखण्डनार्थमध्येयं तवचनमिति बुद्धया ये वादिनस्त्वद्वचनं पठन्ति तेषां त्वद्वचनाविभूतवस्तुतत्त्वज्ञानाच्चिरसञ्चितान्यसंशयक्षयतोऽनर्थसंचयोऽपि, दूरीभवत्येवेत्याह यदि नाम जिगीषयापि ते निपतेयुर्वचनेषु वादिनः। चिरसंगतमन्यसंशयं क्षिणुयुर्मानमनर्थसंचयम् // 14 // यदि नामेति / “यदि नाम जिगीषयाऽपि ते वचनेषु वादिनो निपतेयुः, चिरसङ्गतमन्यसंशयं मानमनर्थसंचयं च क्षिणुयुः" इत्यन्वयः / यदि नामेति कोमलामन्त्रणे, जिगोषियाऽपि भवन्तं जेतुमिच्छयाऽपि; ते तव, वचनेषु अनेकान्तवादेषु, वादिनः एकान्तवादिनः, निपतेयुः तद्रहस्यमवबोद्धं तदन्तः प्रविशेयुः, तर्हि चिरसङ्गतं बहुकालादविच्छिन्नऽन्तःकरणे सुदृढनिरूढम् , अन्यसंशयमपि जिनमतं यथार्थ न वेत्यादिसंशयस्तु तद्ग्रन्थावलोकनतोऽनेकान्ततत्त्वनिर्णयादेव दूरीभूतः, स्वस्वाभ्युपगतग्रन्थार्थविषयकं संशयमपि स्वमतविरुद्धैकान्तमतावलोकनसमुद्भुतं, ग्रन्थतात्पर्यानबोधजनितं वा, तथा मानं मदाप्तप्रणीतवादे एव यथार्थो नान्य इत्यभिमानम् , तथा अनर्थसंचयं जीवहिंसादिप्रधानयज्ञादिविधायकशास्त्रप्रामाण्यग्रहप्रभवतदाचरणजनितानिष्टनिकुरम्बं च, क्षिणुयुः विनाशयेयुरित्यर्थः / 'चिरसंगतमप्यसंशयम्' इति पाठे तु चिरसंगतं मानम् , अनर्थसंचय च, असंशयं निश्चयतः, क्षिणुयुः, अत्रापिशब्दः समुच्चयार्थकः // 14 //