________________ 122 दिवाकरकृता किरणावलीकलिता चतुर्थी द्वात्रिंशिका / त्वनाथवत्त्वेनैव जनाः सुखिनः सजाता इत्युपदर्शयतिअविकल्पमनःस्विदं वच- . स्तव यैरेव मनःसु संभृतम् / समतीतविकल्पगोचराः __मुखिनो नाथतयैव ते जनाः // 12 // अविकल्पेति / "अविकल्पमनःसु मनःसु तवेदं वचो यैरेव संभृतम् , ते जनाः समतीतविकल्पगोचरा नाथतयैव सुखिनः" इत्यन्वयः। अविकल्पमनासु विशेषेण विरुद्धा वा कल्पना येषु तानि विकल्पानि, * मन्यते यस्तानि मनांसि विकल्पानि च तानि मनांसि विकल रमनांसि, न विकल्पमनांसि अविकल्पमनांसि, तेषु अविकल्पमनःसु, विकल्पमनोभिन्नेष्वित्यर्थः, मनःसु अन्तःकरणेषु, यैरेव यैरेव पुरुषः, तव जिनस्य, इदं स्याद्वादोपदेशलक्षणं, वचः वचनं, संभृतम् एकत्रीकृतम् , ते मनस्सु सङगृहीतत्वद्वचनाः, जनाः लोकाः, समतीतविकल्पगोचराः समीचीनातीतविकल्पविषयाः, नाथतयैव त्वद्गता या नाथता स्वामिता तयैव, सुखिनः सुखवन्त इत्यर्थः // 12 // हे वीर ! समानदृष्टयाऽविशेषेण सर्वानुपदिशतो भवतः सर्वस्वामित्वं वस्तुगत्या समस्त्येव, एवमपि भवदुपदेशममन्यमाना न भवन्तं स्वामित्वेनाभ्युपयन्ति ये तेषां भवो भविष्यत्येव, तन्निवृत्तिकारणतत्त्वज्ञानराग-द्वेषादिनिवृत्तेरभावादित्याह-- परिवृद्धिमुपैति यद् यथा नियतोऽस्यापचयस्ततोऽन्यथा / तमसा परिचीयते भव स्त्वदनाथेषु कथं न वय॑ति // 13 // परिवृद्धिमिति / “यद् यथा परिवृद्धिमुपैति, ततोऽन्यथा निग्रतोऽस्यापचयः, भवस्तमसा परिचायते, त्वदनाथेषु कथं न वय॑ति" इत्यन्वयः / यद यस्तु यथा येन प्रकारेण, स्ववृद्धिकारणादिसन्निधानेन, परिवृद्धिं परितः-सर्वप्रका