________________ दिवाकरकृता किरणावलीकलिता चतुर्थी द्वात्रिंशिका / 121 धयितुं, वा अथवा, विनियोक्तुं यत्र यदा यदुपयुक्तं तत्र तदा तस्य विनियोगंफलविषयमषणं कतु दुर्बलः निषेध-विनियोगसामर्थ्यरहितः पुमान , न नैव, अलं समर्थः, इयम्-अनन्तरोपवर्णिता, ऋषेः सर्वज्ञस्य, तव जिनस्य, च पुनः, नात्मवैरिणः यः खलु विहितमकुर्वन् निषिद्धं च कुर्वन् आत्मनोऽहितमेवानवरतं करोति न तु हितं सोऽनात्मज्ञ आत्मशत्रुः एतादृशो यो न भवति स नात्मवैरी तस्य निषेधार्थक-नशब्देन समासः, लोकस्य व्यवहारकुशलस्य जनस्य, नियता योग्यदेशकालावस्थाद्यनुसारिणी, व्यवस्र्थाितः व्यवस्थेत्यर्थः / यद्वा ऋषेस्तव नियतेयं व्यवस्था, न चात्मवैरिणो लोकस्येत्यन्वयः / अत्र लोकस्य जनस्येत्यर्थः // 10 // __ येनैव रक्तो रक्तमनाश्च यत् स्वयं करोति, तदेव तेनाचरितव्यम् , एवं सति तद्विपर्ययेण भगवति जिने नानन्दोल्लासस्तस्येत्याह यदि येन सुखेन रज्यते . कुरुते रक्तमनाश्च यत् स्वयम् / प्रविचिन्त्य जनस्तदाचरेत् प्रतिघातेन रमेत कस्त्वयि // 11 // यदीति / "यदि येन सुखेन रज्यते, रक्तमनाश्च यत् स्वयं कुरुते अनः, प्रविचिन्त्य तदाचरेत् , प्रतिघातेन त्वयि को रमेत" इत्यन्वयः / यस्मै यद् रोचते तदेव स्वबुद्धिविकल्पनयाऽऽचरन्तं जन प्रति भगवतो जिनस्य कष्टसाध्यतपःस्वाध्यायादिविधायकागमस्यानर्थक्यं प्रसज्येतेति न स्वच्छन्दाचरणं युक्तमित्यावेदनाय-यदीति, येन विषयोपभोगादिप्रभवेन, सुखेन आनन्देन, रज्यते रक्तो भवति, तदानन्दनिमग्नान्तःकरणस्तदेव बहुमन्यते, च पुनः, रक्तमनाः तद्विषयासक्तान्तःकरणः, यत् यदेव विषयोपभोगादिकं, स्वयं आत्मनैव, न तु परप्रेरणया, कुरुते करोति, प्रविचिन्त्य प्रकर्षेण विचार्य, जनो लोकः, तत् स्वाभिलषितं स्वयमेव प्रतिभावितं च, आचरेत् कुर्यात् , तर्हि प्रविघातेन . स्वकीयस्वच्छन्दाचरणविनाशेन, त्ययि कष्टतपःप्रभृतिविधायकागमोपदेष्टरि भग वति जिने, कः कः पुरुषः, रमेत आनन्दक्रीडां विदधीत ? न कोऽपि-त्वयि रमेतेत्यर्थः // 11 //