________________ , 120 दिवाकरकृता किरणावलीकलिता चतुर्थी द्वात्रिंशिका / भयमेव यदा न बुध्यते ___ स कथं नाम भयाद् विमोक्ष्यते / अभये भयशङ्किनः परे यदयं त्वद्गुणभूतिमत्सरः // 9 // __भयमेवेति / “यदा भयमेष न बुध्यते कथं नाम स भयाद् विमोक्ष्यते, यत् परे अभये भयाङ्कनः, अयं त्वद्गुणभूतिमत्सरः” इत्यन्वयः। यदा यदि, यः पुरुषः, भयमेव भयस्वरूपमेष, न बुध्यते न जानाति, कथं केन कारणेन केन प्रकारेण वा, नामेति कोमलामन्त्रणे, स भयस्वरूपानभिज्ञः पुमान् , भयात्, विमोक्ष्यते विमुक्तः स्यात् ? यो भयस्वरूपाभिज्ञः स भयं ज्ञात्वा तत्कारणं पर्यालोच्य परिहरन् भयाद् विमुक्तो भवति, भयस्वरूपानभिज्ञस्तु तत्कारणं परि. हर्तुं न शक्नोतीति तदुपनिपाताद् भयमाप्नोत्येवेत्यर्थः, यत् यस्मात् , परे एकान्तवादिनः, अभये निर्वाणादौ, भयशङ्किनः तत्र भयं स्यान वेति शङ्काशालिनो भवन्ति, अयं भयस्वरूपज्ञानाभावप्रयुक्तो भयविमुक्त्यभावः, परेषामभये भयशङ्का च त्वद्गुणभूतिमत्सरः हे जिन ! त्वद्गुणस्य या भूतिरेश्वयं तत्र मत्सरो-मात्सर्यम् , कारणे कार्योपचारात् कारणं जिनगुणभूतिमत्सरो निरुक्तकार्यामेदेनोक्त इति // 9 // बलसाध्यं बलवानेव विनियोक्तुं प्रतिषेधुं चाहति, दुर्बलो नेति नियता व्यवस्था परमर्भवतो नात्मवैरिणो लोकस्य चेत्युक्तव्यवस्थामुल्लङयन् पुमान् न फलसिद्धिमानोति, शत्रुश्चात्मनोऽहितकरणात् सम्पद्यत इत्याशयेनाह बलसाध्यमलं न दुर्बलः प्रतिषे,विनियोक्तुमेव वा। नियतेयमृर्व्यवस्थिति स्तव लोकस्य च नात्मवैरिणः // 10 // बलसाध्यमिति / “बलसाध्यं प्रतिषेढुं वा विनियोक्तुं दुर्बलो नैवालम् , इयमृषेस्तवानात्मवैरिणो लोकस्य च नियता व्यवस्था" इत्यन्वयः / बलसाध्य कर्तुं प्रतिषेधुं वा यत् सामर्थ्य तदेव बलं, तेन साध्य-निष्पाद्यं, प्रतिषेद्धं निषे