________________ दिवाकरकता किरणावलीकलिता चतुर्थी द्वात्रिंशिका / 119 वीरं जगन्नायकतया स्तौतिवितथं कृपणः स्वगौरवाद् वदति स्वं च न तेऽस्ति किञ्चन / वितथानि सहस्रशश्च ते जगतश्चापतिमोऽसि नायकः // 8 // वितथमिति / “कृपणः स्वगौरवाद् वितथं वदति, हे वीर ! च-पुनः, ते किञ्चन स्वं नास्ति, च-पुनः, ते सहस्रशो वितथानि, जगतश्चाप्रतिमो नायकोऽसि" इत्यन्वयः / कृपणः कदयः। "मात्मानं च कुटुम्बं च पुत्रान् दारांश्च पीडयन् / लोभाद् यः प्रचिनोत्यर्थान् स कदर्य इति स्मृतः // 1 // " इति वचनात सत्यपि कुटुम्बादिप्रतिपालनप्रत्यये धने तदुपयोगक्षयसंभावनया कुटुम्बादिप्रतिपालनमकुर्वन् लोभाद् धनप्रचयतत्परः, स्वगौरवात् स्वस्य-धनस्य सर्वापेक्षया गुरुत्वात्, समागतमतिथ्यादिकं याचकं वा प्रति, वितथं किं ददामि ते, नास्ति मम सन्निधौ तव भोजनार्थ परितोषार्थ वा दातुं योग्यं धनमित्येवमनृतम् , वदति भाषते, वीर ! च पुनः, ते तव, किञ्चन किमपि, स्वं धनं, नास्ति न विद्यते, राज्यं सपरिकरं परित्यज्य,प्रव्रज्यां गृहीतवतो वीरस्य स्वमात्रस्यैवाभावात्, च पुनः, ते तव, सहस्रशः सहस्रपदमनन्तोपलक्षकम् , अनन्तानि वितथानि परमानन्दज्ञानात्मकात्मव्यतिरेकेण किञ्चनापि जगति न सारमिति निश्चयदृष्ट्या अनृतानि, वस्तुमात्रमनन्तधर्मात्मकमिति जिनमते यत्र सत्यत्वं तत्रासत्यत्वमपि, अपेक्षाभेदेन विधि-निषेधयोरेकत्र धर्मिण्यविरोधादित्यनन्तानि वस्तूनि किञ्चिदपेक्षया वितथानीति, हे भगवन् ! च पुनः, त्वं जगतः विश्वस्य, अप्रतिमः न विद्यते प्रतिमा-उपमा यस्य सोऽप्रतिमः, अनन्यसदृशः, नायकः नयति-हिते प्रवर्तयतीति नायकः, यस्य यद्धितं तं तत्र प्रवर्तयति, तदीयागमलक्षणाज्ञया हितमाचरन्ति लोका. इति, असि भवसि // 8 // - भवस्वरूपानभिज्ञस्य त्वदाज्ञाबाह्यस्य न भयाद् विमुक्तिः, परेषामभये भयशङ्कानिमित्त त्वद्गुण भूतिमत्सर एवेत्युपदर्शयति