________________ 118 दिवाकरकृता किरणावलीकलिता चतुर्थी द्वात्रिंशिका / भवमूलहरामिति / “भवमूलहरां तव विद्यामधिगन्तुमञ्जसाऽशक्नुवन्नयं जनो भवतेऽसूयते, भिषजे मूर्ख ईश्वरातुर इव" इत्यन्वयः / भवमूलहरां भवस्य-संसारस्य, मूलं-कारणं कर्माष्टकलक्षणमज्ञानं भवमूलं हरति-विनाशयतीति भवमूलहरा, भवमूलविनाशिका, ताम, तव जिनस्य, विद्याम् अनन्तधर्मात्मकानेकान्ततत्त्वविषयककेवलज्ञानस्वरूपम्, अधिगन्तुं प्राप्तुम् , अञ्जसा झटिति, अशक्नुवन् तथाविधसामर्थ्य विशेषाभावादशक्तः, अयं जनः भवद्विद्याप्राप्त्यशक्तो अनः, भवते जिनाय, असूयते गुणेषु दोषाविष्करणरूपामसूयां करोति, भिषजे भिषग्वराय, मूर्खः वैद्यविद्यास्वपण्डितः, ईश्वरातुरः ईश्वरो धनाढ्यश्वासावातुरो व्याधिपीडित:-ईश्वरातुरः, इव स * यथा यथावद्वैद्योपदिष्टौषधोपयोगमकुर्वन् रोगोपशान्तिमलभमानो भिषग्वरायासूयते तथेत्यर्थः // 6 // जिनस्य गुर्वननुसरणत एवानुपमपाण्डित्यावाप्तविश्वाचार्यविजयित्वं स्तौतिन सदासु वदनशिक्षितो लभते वक्तृविशेषगौरवम् / अनुपास्य गुरुं त्वया पुन जगदाचार्यकमेव निर्जितम् // 7 // न सदःस्विति / “सदःसु अशिक्षितो वदन वक्तृविशेषगौरवं न लभते, हे वीर ! त्वया पुनः गुरुमनुपास्यैव जगदाचार्यकं निर्जितम्" इत्यन्वयः / सदासु वादि-प्रतिवादि-मध्यस्थ-सभापतिमण्डितासु सभासु, अशिक्षितः गुरुवरादप्राप्तशिक्षः, वदन् यत्किञ्चित् प्रलपन्, वक्तृविशेषगौरवं वक्तृविशेषस्य-न्यायादिदर्शनप्रतिपादकवक्तृविशेषस्य, गौरवं-गुरुत्वं, न नैव, लभते प्राप्नोति, महानयं वक्तेत्येवं लोके न गीयते, हे वीर !, त्वया भवता जिनेन पुनः, गुरु स्वशिक्षाविशारदमध्या रकम्, अनुपास्य उपास्तिमकृत्वा, गुरुमुखाच्छास्त्रण्यनधीत्यैव, जगदाचार्यकं विश्वाचार्यकदम्बकम्, निर्जितं पराजितम्, विश्वाचार्यपरमाचार्यः स्वयमेव संवृत्तो न तु तवापि कोऽप्याचार्यो विद्यते, सभासु स्वखदर्शनपाण्डित्यप्रकटनार्थ विजयाय चोपस्थितानेकान्तवादिप्रकाण्डान् निर्जित्य तेषामाचार्यों वीर ! त्वं जात इत्यर्थः // 7 //