________________ दिवाकरकृता किरणावलीकलिता चतुर्थी द्वात्रिंशिका / 117 अभिमानप्रहिलो जनो हितकामोऽप्यत्यन्तहितावहे जिने न प्रीतिभाप्नोत्यहो मानकलेश्चेष्टितमित्याहहितयुक्तमनोरथोऽपि सं स्त्वयि न प्रीतिमुपैति यत् पुमान् / अतिभूमिविदारदारुणं . तदिदं मानकलेविजृम्भितम् // 5 // हितयुक्तमनोरथोऽपीति / “यत् हितयुक्तमनोरथोऽपि सन् पुमान त्वयि प्रीतिं न उपैति, तदिदं मानकलेरतिभूमिविदारदारुणं विजृम्भितम्" इत्यन्वयः / यत् यस्मात् कारणात्, हितयुक्तमनोरथोऽपि सन् हितेनअभीष्टेन, विषयतया युक्तो हितयुक्तः हितयुक्तो मनोरथः-मनःकामना यस्य स हितयुक्तमनोरथः, हितविषयककामनावान् , एवम्भूतोऽपि, सन् भवन्, अपिना किं पुनम्तथाकामनाविकल:, हितविषयककामनारहितो मूढत्वादेव जिने प्रीतिविकलो भविष्यतीति न तत्र मानकलेविचेष्टितमित्यपिग्रहणप्रयोजनम् / त्वयि जिने, प्रीतिं भक्तिबहुमानाकलितं स्नेहम् , उपैति प्राप्नोति, तत् तस्मात्, इदं जिने भक्त्यनासादनम् , मानकलेः मानस्य-स्वोच्चत्वाभिमानस्य, कलि:स्वच्छन्दं क्रीडा तस्य,' अतिभूमिविदारदारुणं अतिशयेन भूमेविदारःविदारणं खननं, तद्वद् दारुणं -भयङ्करम्, अतिशयेन भूखाते कृते तत्र पतनभीत्या न कोऽपि तत्समीपमुपगच्छति तथेदम्, विजम्भित चेष्टितम्, यथा रत्नभ्रान्त्याऽतिभूमिखननं निष्फलं तथा जिनप्रीतिविमुखस्य जनस्य हितयुक्तो मनोरथो निष्फल एव भवतीत्यर्थः / / 5 / / स्वद्विद्यामधिगन्तुमशक्तस्य त्वय्येवासूया भिषग्वरे मूर्खातुरेश्वराच्यासदृशीत्याह भवमूलहरामशक्नुवं - स्तव विद्यामधिगन्तुमञ्जसा / भवतेऽयमसूयते जनो भिषजे मूर्ख इवेश्वरातुरः // 6 //