________________ 116 दिवाकरकृता किरणावलीकलिता चतुर्थी द्वात्रिशिका। सहस्राक्ष इन्द्रः, अंशुसहस्रलोचनः अंशूनां-किरणानां सहस्रम्-अंशुसहस्र, तदेव लोचनं-नयनं यस्य सोऽशुसहस्रलोचनः-सहस्रकिरणः, सविता सूर्यश्च, यद् जगतो विश्वस्य, तमः अन्धकारमज्ञानं, विदारयितुं विनाशयितुं, न ईश्वरः न समर्थो भवति, तत् विश्वस्याज्ञानलक्षणं तमः, भवतां जिनेन, हतं विनाशितम् // 3 // सर्वतो विरक्त एव जनो जिनेऽनुरक्तो भवति, न तु विषयाशाग्रहगृहीत इत्याह निरवग्रहमुक्तमानसो विषयाशाकलुषस्मृतिर्जनः। त्वयि किं परितोषमेष्यति ? द्विरदः स्तम्भ इवाचिरग्रहः // 4 // निरवग्रहमुक्तमानस इति / “निरवग्रहमुक्तमानसो विषयाशाकलुषस्मृतिः जनः त्वयि परितोषं किमेष्यति ? अचिरग्रहो द्विरदः स्तम्भ इव" इत्यन्वयः / निरवग्रहमुक्तमानसः निरवग्रह-प्रतिबन्धरहितं यथा स्यात् तथा, मुक्तं-विषयान् प्रति प्रहितं, मानसं-मनो येन स निरवग्रहमुक्तमानसः, प्रतिबन्धरहितसर्वविषयपरिक्षिप्तचित्तः, विषयाशाकलुषस्मृतिः विषयस्य-धनपुत्र-कलत्रादेः, आशा-अभिलाषा, धनं मे भवतु, कलत्रं मे भवत्वितीच्छत्यर्थः, तया कलुषा-मलिना स्मृतिर्यस्य स विषयाशाकलुषस्मृतिः, विषयस्पृहाधीनतत्तद्विषयोपादानविषयकस्मरणवान् , जनः पुरुषः, त्वयि राग-द्वेषादिरहिते जिने, परितोषं सन्तोषं, किम् ? एष्यति प्राप्स्यति, न प्राप्स्यति, अचिरग्रहः चिरं-बहु व्यतीतकालं, ग्रहः-ग्रहणं यस्य स चिरग्रहः, न चिरग्रहोऽचिरग्रहः, कतिपयदिवसाभ्यन्तर एव गृहोतः, द्विरदः हस्ती, स्तम्भे तद्वन्धनार्थं गृहमध्यव्यवस्थापिते स्थूलकाष्ठे, इव यथा, परितोषं नैति, यथा वने स्वच्छन्दमितस्ततो वनकरिणीभिः समं बहुकालं विहरणानन्दानुभवनशीलो द्विरदो बलाद् वनादानीय स्तम्भे बद्धो न तत्र परितोषमेति तथेत्यर्थः // 4 //