________________ दिवाकरकृता किरणावलीकलिता चतुर्थी द्वात्रिंशिका / 115 भवदालम्बनमन्तरेण मम मनो न रन्तुमीहत इत्याहयदि वा कुशलोच्चलं मनो यदि वा दुःखनिपातकातरम् / न भवन्तमतीत्य रंस्यते ____ गुणभक्तो हि न वच्च्यते जनः // 2 // यदि वेति / “मनो यदि कुशलोच्चलं वा, यदि दुःखनिपातकातरं वा मनः, भवन्तमतीत्य न रंस्यते, हि गुणभक्तो जनो न वञ्च्यते” इत्यन्वयः / मनः अन्तःकरणं, यदि संभावनायां, कुशलोच्चलं कुशलेन-कल्याणलक्षणविषयेण, उच्चलम्-उच्चस्थानं लाति-अन्तर्भूतण्यर्थत्वात् प्रापयतीति-उच्चलं, कल्याणानुध्यानत उत्कृष्टस्थानस्य सुखमयस्य प्रापकं, यद्वा कल्याणतत्परं, वा भवेद् वा, यदि संभावनायां, दुःखनिपातकातरं दुःखस्य-आध्यात्मिका-ऽऽधिभौतिका-ऽऽधिदैविकभेदेन त्रिविधस्याशातावेदनीयस्य, यो निपात:-नितरां प्राप्तिः, तेन कातरंभयग्रस्तं वा भवेत् , उभयथाऽपि भवन्तं जिनम्, अतीत्य आलम्बनमकृत्वा, न नैव, रंस्यते रतिं प्राप्स्यति, हि यतः, गुणभक्तः गुणाश्रयपुरुषानुरक्तः, जनः पुरुषः, न वञ्च्य ते न प्रतारितो भवति, भवांस्तु गुणवानिति भवदालम्बनकं मनोऽसंशयं कल्याणमासादयिष्यत्येवेत्यर्थः // 2 // ____अज्ञानान्धकारनिवारको भवानेवाश्रयणीय इत्याह-- कुलिशेन सहस्रलोचनः ___ सविता चांशुसहस्रलोचनः / न विदारयितुं यदीश्वरो ___ जगतस्तद् भवता हतं तमः // 3 // कुलिशेनेति / “कुलिशेन सहस्रलोचनः, अंशुसहस्रलोचनः सविता च, यद् जगतस्तमो विदारयितुं न ईश्वरः, तद् भवता हतम्" इत्यन्वयः / कुलिशेन वज्रेण, सहस्रलोचनः सहस्रसंख्यकं लोचनं नयनं यस्य स सहस्रलोचनः