________________ चतुर्थी द्वात्रिंशिका श्रीमन्तं नेमिसूरिं गुरुवरमवरं सर्वसिद्धान्तवियं ' __ नत्वा स्मृत्वा च तत्तबुधवररचितानेकशास्त्रार्थसारम् / धीमाल्लावण्यसूरिजिनगुणविमलां सिद्धसेनप्रणीतां व्याख्यातीज्यां तुरीयां स्तुतिममलपदां स्पष्टभावार्थकान्ताम् // 1 // भगवत्स्तुत्यर्थप्रयासहेतुमुपदर्शयतिपरिचिन्त्य जगत् तव श्रिया न विरोधस्तिमितेन चेतसा / परुषं प्रतिभाति मे वच स्त्वदृते वीर ! यतोऽयमुद्यमः॥१॥ [वैतालीयम् ] परिचिन्त्येति / “हे वीर ! विरोधस्तिमितेन चेतसा तव श्रिया जगत् न परिचिन्त्य त्वद् ऋते वचः परुषं यतो मे प्रतिभाति. अतोऽयमुद्यमः" इत्यन्वयः। हे वीर !, विरोधस्तिमितेन सत्त्वा-ऽसत्त्वादिधर्माणां यो विरोधस्तेन स्तिमितंकुण्ठितं विरोधस्तिमितं तेन, चेतसा चित्तेन, तव जिनस्य, श्रिया अनन्तधर्मात्मकत्वाभ्युपगमलक्षणानेकान्तलक्ष्म्या, उपलक्षणे तृतीयेति तव लक्ष्म्युपलक्षितं, जगत् विश्वं, न परिचिन्त्य अविचार्य, त्वदृते त्वामन्तरेण त्वत्स्याद्वादपरिशीलनमन्तरेति यावत् , वचः 'सदसत् , नित्यानित्यं, भिन्नाभिन्नं वस्तु' इत्यादि वचनं, परुषं कठिनमसह्य, यतः यस्मात् , मे मम प्रतिभाति भासते, अत इति शेषः, अस्मात् कारणाद् , अयं भवद्गुणस्तुतिविषयकः, उद्यमः प्रयत्नः, अनेन प्रयत्नेन सर्वं त्वद्वचनममृतमिवास्वाद्यमानमानन्दोल्लासकमेव भविष्यतीत्यर्थः // वैतालीयवृत्तमिदम् , तल्लक्षणं तु-"ओजे षण्मात्रा लगन्ता युज्यष्टौ न युजि षटू सततं ला न समः परेण गो वैतालीयम्" इति छन्दोऽनुशासने, तवृत्तिश्च-"ओजपादयोः षण्मात्रा लगन्ताः-रगणलघुगुर्ववसानाः, युक्पादयोरष्टौ मात्रा लगन्ता एव यत्र तद् वैतालीयं नाम च्छन्दः / अपवादमाह -न युजोः पादयोः षड् लघवो निरन्तरा भवन्ति, न च समो ल: सर्वपादेषु परेण गुरुर्भवति" इति / एवमप्रेऽपि // 1 //