________________ कौमुदीमित्राणन्दरूपकम् / सुमित्रा-(निरूप्य स्वगतम् ) अरि ! गरुअत्तं खंधाण अरिरि ! वच्छत्थलस्स पिहुलत्तं / कटरि ! थिरत्तं दिट्ठीऍ कटरि ! बाहाण दीहत्तं // 8 // पल्लीपतिः- त्वमेकः सार्थाधिपतिः / सार्थवाहः- अपरोऽप्यस्ति वेलन्धरपुरनिवासी नरदत्तनामा सार्थाधिपतिः / पल्लीपतिः-अरे! कथं स न सङ्गहीतः / पदाति:- सोऽपि सङ्गहीतः, परं सार्थ एव तिष्ठति / पल्लीपतिः-अरे पुरुष ! गत्वा ब्रूहि कङ्कालकम् / यथा-सार्थद्रविणमशेषमपि पल्ल्यां प्रवेशय / (पुरुषो निष्क्रान्तः।) सार्थवाहः-( दक्षिणाक्षिस्फुरणमभिनीय सहर्षम् ) निश्चितमयमस्माकं तस्करोपद्रवः शुभोदकः। (पुनः सुमित्रां साभिलाषमवलोक्य ) अहो! बाह्यनेपथ्यैरकदर्थितो नेत्रपात्रकलेह्यः कोऽपि चारिमा / यतः.... वकं चन्द्रविलासि, पङ्कजपरीहासक्षमे लोचने, ___वर्णः वर्णमलङ्करिष्णुरलिनीजिष्णुः कचानां चयः। . वक्षोजाविभकुम्भविभ्रमहरौ, गुर्वी नितम्बस्थली, वाचां मार्दवमुज्वलं युवतिषु खाभाविक मण्डनम् // 9 // पल्लीपतिः-सार्थवाह ! किमभिधानोऽसि / सार्थवाहः-मकरन्दाभिधानोऽस्मि / सुमित्रा-(सवितर्कमात्मगतम् ) किं एसो सो मयरंदो? जस्स अहं रयणायराहिवइणा परिणेदुं पडिवादिदा / (पुनः सस्पृहम् ) जइ एसो चिअ सो ता कदत्थो मे जम्मो। कौमुदी-( सविमर्शमात्मगतम् ) किं एसो सो मह भत्तुणो मित्तं मयरंदो। दिद्विआ दिडिआ, जीविद म्हि भत्तुणो मित्तस्स दसणेण / सार्थवाहः-( सुमित्रां निरूप्य स्वगतम् ) 1) अरे। गुरुत्वं स्कन्धयोः अरेरे! वक्षस्थलस्य पृथुलत्वम् / कटरि! स्थिरत्वं दृष्ट्याः कटरि / बाहोः दीर्घत्वम् // 2) किं एष स मकरन्दः ? यस्याहं रत्नाकराधिपतिना परिणेतुं प्रतिपादिता / यदि एष एव स तत् कृतार्थ मे जन्म। 3) किं एष स मम भर्तुमित्रं मकरन्दः ? / दिष्ट्या दिष्ट्या, जीविताऽस्मि भर्तुमित्रस्य दर्शनेन /