________________ महाकविश्रीरामचन्द्रसूरिविरचितं अस्यां जगन्नयनकैरवचन्द्रिकायां, सत्यामपि त्रिभुवनस्थितिसूत्रधारः। लक्ष्म्यां स यादसि रतिं हरिरादधानः, प्रेम्णो विचारविमुखां दिशति प्रशस्तिम् // 10 // पल्लीपतिः-अरे सर्पकर्ण! गत्वा ब्रूहि कङ्कालकम् / यथा-नरदचः सुखं धरणीयः, अपरथा लक्ष्मीपतिर्युवराजः क्रोत्स्यति / (सर्पकर्णो निष्क्रान्तः / ) (प्रविश्य ) पुरुषः- भट्टा! लच्छीवइणा पेसिदो पुरिसो तुम्हाणं दंसणमिच्छदि / पल्लीपतिः-(साशङ्कम् ) शीघ्रमानय / ( पुरुषो निष्क्रान्तः / ) (प्रविश्य लेखहारकः लेखमर्पयति / ). पल्लीपतिः-( उत्थाय गृहीत्वा वाचयति ) स्वस्ति, वेलन्धरनगराद् युवराजो लक्ष्मीपतियाघ्रमुख्यां वज्रवर्माणं सम्बोध्य कार्यमादिशति / यथा-अस्माकं परमोपकारी मित्राणन्दनामा वणिक् कौमुदीनाम्न्या कान्तया समं परिभ्राम्यन् कचिदपि यदि भवत्पदातिभिः प्राप्यते तदाऽस्मभ्यमुपनेय इति / ( पुनर्विमृश्य स्वगतम् ) सम्भवति तयोर्मध्यात् किमप्येषु मानुषेषु / (प्रकाशं सुमित्रां प्रति) भद्रे! किमभिधानाऽसि / सुमित्रा-अहं सुमित्ताभिहाणा / पल्लीपतिः- (कौमुदी प्रति ) तव किमभिधानम् ? / स्थविरः-राजपुत्र ! अस्याः कौमुदीत्यभिधानम् / पल्लीपतिः-( स्वगतम् ) संवदति भार्यानामधेयम् / (प्रकाशम् ) किमभिधाना पतिरस्याः / स्थविरः- एतद्भर्त्ता मित्राणन्दाभिधानः। पल्लीपतिः - (स्वगतम् ) कथमस्माभिरात्मीयानामेव मानुषाणामुपद्रवः कृतः / सार्थवाहः - भद्रे ! कुतस्त्यस्ते भर्ता / कौमुदी- कोउगमंगलनिवासी मे भत्ता / 1) भर्तः / लक्ष्मीपतिना प्रेषितः पुरुषः युष्माकं दर्शनमिच्छति / 2) अहं सुमित्राभिधाना। 3) कौतुकमङ्गलनिवासी मे भर्ता / 1 कोतु क।