________________ महाकविश्रीरामचन्द्रसूरिविरचितं अस्मिन् जगति महत्यपि न वेधसा किमपि वस्तु तद् घटितम् / अनिमित्तमित्रवृत्तेर्भवति यतो मातुरुपकारः॥६॥ (प्रकाशं सकपटम् ) यमदण्ड ! यदि न मुञ्चति तदा व्यापादय बालकम् / ( यमदण्डः कृतकं कृपाणेन प्रणिहन्ति / ) : (वृद्धा पूत्कुर्वाणा कृपाणघातं शिरसा प्रतीच्छति / ) स्थविरः-( तारस्वरम् ) अब्रह्मण्यमब्रह्मण्यम् / / सुमित्रा-( यमदण्डं प्रति ) भाय! कीस एवं थेरि मारेसि / / पल्लीपतिः-( सविस्मयम् ) अपत्यजीवितस्यार्थे प्राणानपि जहाति या। त्यजन्ति तामपि क्रूरा मातरं दारहेतवे // 7 // . (पुनः सकरुणं यमदण्डं प्रति) मुश्चैनं वराकम् , अन्यतः कुतोऽपि द्रविणमपहरिष्यामः। (प्रविश्य) - पुरुषः-भट्टा! दिट्ठिया एगो महंतो सत्थो संपत्तो। पल्लीपतिः-( सहर्षम् ) अस्ति किमपि द्रविणम् 1 / . पुरुषः-कैणयसंपुडाइयं पहूदं दविणमत्थि / पल्लीपतिः-सार्थवाहोऽपि सङ्ग्रहीतः / पुरुषः-न केवलं संगिहीदो तुम्हाणं पासे आणीदो अस्थि / (ततः प्रविशति पदातिना विधृतबाहुः सार्थवाहः / ) पल्लीपतिः-(विलोक्य) यथाऽयं दर्शनीयाकृतिस्तथा जाने महापुरुषः कोऽपि / सुमित्रा-(अपवार्य कौमुदीं प्रति ) सहि ! सत्थवाहं निरूविअ मे महंतो हरिसपब्भारो वहृदि, ता चिंतेहि किं कारणं / कौमुदी-सहि ! ममावि एवं / / पल्लीपतिः-सार्थवाह ! कुतः समागतोऽसि / सार्थवाहः- साम्प्रतं सुवर्णद्वीपात् / 1) भ्रातः ! कस्मादेतां स्थविरां मारयसि ? / 2) भर्तः / दिष्ट्या एको महान् सार्थः सम्प्राप्तः / 3) कनकसम्पुटादिकं प्रभूतं द्रविणमस्ति / 4) न केवलं संगृहीतो युष्माकं पार्श्वे आनीतोऽस्ति / 5) सखि | सार्थवाहं निरूप्य मे महान् हर्षप्राग्भारो वर्धते, तच्चिन्तय किं कारण 6) सखि ! ममापि एवम् / 1°त्तचित्तवृक। 2 भो। कीस क।