________________ - कौमुदीमित्राणन्दरूपकम् / वृद्धा-कण आणीदो।। पल्लीपतिः-( यमदण्डं प्रति) निसर्गसौहृदाज्ञातकायवाङ्मनसक्लमाः।। बालाः कथं नु जीवेयुर्न भवेजननी यदि ? // 5 // ( यमदण्डः बालकं हस्ते गृहीत्वाऽऽकर्षति / ) वृद्धा-पुत्त! पुत्त ! मिल्हेहि एदं वरायं / सुमित्रा-(प्रणम्य पल्लीपतिं प्रति ) ताद ! अम्हाणं देसभंगेण दूरीभूदसयलकुडंबगाणं एसो चेअ एगो जीविदालंबणं, ता चिट्ठदु एस वराओ। पल्लीपतिः-तिष्ठतु, न वयं ग्रहीष्यामः, किन्तु किमप्येतदीयं द्रविणं प्रयच्छ / स्थविर:-पल्लीश्वर ! रत्नाकरभङ्गेन कान्दिशीका युष्मान् शरणमेताः प्रपन्नाः / साम्प्रतमेतासां शम्बलमपि नास्ति / ततः किमेतं बालकं गृहीत्वा करिष्यत? / गृहीतोऽप्ययं मातरं विना विपत्स्यते / __ यमदण्डः-वयमपि द्रविणं विना विपद्यामहे, ततोऽस्मदीयामपि चिन्तां कामपि कुरु / पल्लीपतिः- यत्रेयं नवयौवनाश्चितवपुर्मंगाक्षी सार्थे भवति तत्र शम्बलकस्याप्यसम्भव इति न मे मनः प्रत्येति / कौमुदी-संबलयं सव्वं पि तुम्हेहिं गहिदं / अओ वरं सव्वहा कि पि नत्थि / पल्लीपतिः-अयं ते पिङ्गलः शम्बलं दास्यति / ( पुनः साक्षेपं यमदण्डं प्रति ) गृहाणैतं बालकम् / अतिकालो भवति / व्रजामः पल्लिकायाम् / .. ( यमदण्डः प्रसभं रुदन्तं बालकमाकर्षति / ) (बालकः प्रतिभयेन वृद्धायाः कण्ठमवलम्बते / ) ( सर्वास्तारस्वरं रुदन्ति / ) / पिङ्गलकः-(वृद्धां यष्टिना प्रणिहत्य ) मुश्च बालकम्, अन्यथा त्वां मारयिष्यामि। वृद्धा-मारेहि मं, तहावि न मिल्लिस्सं / पल्लीपतिः-(स्वगतम् ) 1) स्कन्धेन आनीतः। 2) पुत्र | पुत्र ! मुञ्च एतं वराकम् / ३)तात ! अस्माकं देशभङ्गेन दूरीभूतसकलकुटुम्बकानां एष एव एको जीवितालम्बनम् / तत् तिष्ठत्वेष वराकः। 4) शम्बलकं सर्वमपि युष्माभिहीतम् / अतः परं सर्वथा किमपि नास्ति। 5) मारय माम् , तथापि न मोक्ष्यामि।