________________ महाकविश्रीरामचन्द्रसूरिविरचितं (वृद्धा अधःपरिधानाञ्चलेन बालकं पिदधाति / ) (कौमुदी-सुमित्रे नेपथ्यानि पटावरणेन गोपयतः।) (ततः प्रविशति पल्लीपतिर्यमदण्ड-पिङ्गलक-सर्पकर्णादिकश्च परिवारः।) पल्लीपतिः -(सनिर्वेदम् ) - नक्तं दिनं न शयनं, प्रकटा न चर्या, __ खैरं न चान्न-जल-वस्त्र-कलत्रभोगः। शङ्कानुजादपि सुतादपि दारतोऽपि, लोकस्तथापि कुरुते ननु चौर्यवृत्तिम् // 3 // यमदण्डः -देव! ऐहिका-ऽऽमुष्मिकान क्लेशान् कुक्षिसौहित्यकाम्यया / खीकुर्वन्नस्ति दुर्मेधाः कोऽन्यस्तस्करतो जनः // 4 // (पल्लीपतिः भ्रूसंज्ञया यमदण्ड प्रेरयति / ) यमदण्ड:- (कृपाणमुद्यम्य साक्षेपम् ) अरे वृद्ध ! मुश्च करण्डकम् / स्थविर:-( सदैन्यम् ) गृहाण करण्डकम् / देहि मे प्राणभिक्षाम् / बेनाहं जीवनात्मनः कुटुम्बकं पश्यामि। ( यमदण्डः करण्डकं प्रतिगृह्णाति / ) - (सर्वाः प्रतिभयेन वेपन्ते / ) , ( पिङ्गलकः कौमुदी-सुमित्रयोराभरणानि गृह्णाति / ) पल्लीपतिः- सर्वेषामपि वस्त्राणि रक्षणीयानि / यमदण्डः-वृद्ध ! परिधानाचलेन पिहितं किमिदम् 1 / वृद्धा-न किं पि। (बालकः प्रतिभयेन मन्दं मन्दं रोदिति / ) पल्लीपतिः-कथमयं बालकवरः / ( यमदण्डं प्रति) निरूपय बालको का बालिका वा। सर्पकर्ण:-देव ! बालकोऽयम् / पल्लीपतिः-वृद्धे / कस्याऽयं तनयः ? / वृद्धा - ( सदैन्यम् ) ऐस- मह पुनओ, एदाओ दुवे वि मह पुत्तीओ। पल्लीपतिः-कथं पादचारया त्वयाऽयमियति वर्त्मनि समानीतः। 1) न किमपि। 2) एष मम पुत्रकः / एते द्वे अपि मम पुत्र्यौ / 1 कृपाणमुद्दिश्य ख।