________________ 39 कौमुदीमित्राणन्दरूपकम् / राजा-(अमात्यं प्रति) प्राणानेष सुताय नः प्रवितरन् निःशेषमस्मत्कुलं, प्राणैः प्रीणितमावहत् प्रविलसत्कारुण्यपुण्याकृतिः। तत् किं वस्तु तदस्ति किश्चन गुरौ ब्रह्माण्डभाण्डोदरे, __ येनाऽऽनृण्यममुष्य विश्वजनतारत्नस्य यामो वयम् ? // 13 // तत् तावदेतौ जम्पती खवेश्मनि नीत्वा प्रसादय अस्मन्निर्विशेषेण गौरवविशेषेण यावनिजनगरं प्रति प्रस्थाप्येते / कामरतिः-(स्वगतम् ) प्रियं नः / राजा-वयं च कुमारेण सह सुख-दुःखवार्ता विधातुं मध्यं प्रविशामः / (इति निष्क्रान्ताः सर्वे / ) // पञ्चमोऽङ्कः समाप्तः॥