________________ [ // अथ षष्ठोऽङ्कः॥] (ततः प्रविशति मङ्गलकः / ) मङ्गलकः-(साश्चर्यम् ) समुद्रे पतितस्यापि क्षिप्तस्यापि नभस्तलात् / पुनः सम्पद्यते लक्ष्मीर्यदि प्राणैर्न मुच्यते // 1 // कथमपरथा तथाविधे त्रिलोकीप्रतिभयैकसदसि महति सम्परायमहार्णवे विपक्षक्षितिपालकरालकरवालप्रहारैर्विजयवर्मणः प्रत्यङ्गं व्रणेन वैशसम् ?, कथं चाकाण्डसङ्घटितपान्थप्रेवर्तितौषधद्रवोपलेपेन तदात्व एव व्रणश्रेणीसंरोहणम् ? सर्वथाऽप्यपारव्यसनकान्तारपतितेनापि प्रेक्षापूर्वकारिणा प्राणिना न विषादवैधुर्यमाधेयम् / भवतु, यथादिष्टमादधामि / (पुरोऽवलोक्य ) कथमयमितः परापतति मदनकः 1 / . (प्रविश्य ) - मदनकः-आर्य ! व प्रस्थितोऽसि / मङ्गलका-अद्य किल रत्नाकराभ्यन्तरे विपक्षसौप्तिकोपनिपातकिंवदन्ती / ततः सैनिकावधानदानाय विजयवर्मणा मण्डलेश्वरेण प्रेषितोऽस्मि / मदनकः-आर्य! आमूलतः सम्परायसंरम्भं श्रोतुमिच्छामि। मङ्गलकः-देवस्य विक्रमबाहोरादेशेन चक्रसेनमुत्पाटयितुं विजयवर्मा प्रस्थित इति तवापि प्रतीतमेव / अनन्तरं च क्षुण्णासु कोटिषु मदान्धदृशां भटानां. ___ नष्टे द्विपेन्द्रतुरगोडुरपत्तिसैन्ये / अन्योन्यमुद्यतकृपाणकडम्बकुन्ती, योद्धं स्वयं परिवृढौ रभसात् प्रवृत्तौ // 2 // मदनकः-( ससम्भ्रमम् ) ततस्ततः 1 / मङ्गलका- अनन्तरं च चक्रसेनः प्राणापहारिभिर्निशातहेतिभिर्विजयवर्माणं सर्वाङ्गीणमभिहतवान् / 1 प्रतिवर्तितौषधराजवलयेन ख /