________________ महाकविश्रीरामचन्द्रसूरिविरचितं राजा-(प्रणम्य ) परमेश्वर ! तर्हि प्रसीद / प्रयच्छास्मत्कुलाय प्राणभिक्षाम् / अरे कालपाश ! द्रुततरमपनय बन्धनानि / (कालपाशस्तथाकरोति / ) (मित्राणन्द आसनविशेषमाधाय ध्यानं नाटयति / ) . . .. (आकाशे) __ ब्रूहि भोः ! बहि, किमर्थ मां स्मृतवानसि 1 / सर्वे- (ऊर्ध्वमवलोक्य सविस्मयम् ) कथमियं भगवती विषदेवता जाङ्गुली स्वयं व्याहरति / मित्राणन्दः-(प्रणम्य ) भगवति ! यदि मया प्रसादिताऽसि तदा युवराजमुत्थापय / (आकाशे) उत्तिष्ठ भोः ! उत्तिष्ठ / कुमारः-(ससम्भ्रममुत्थाय ) कथमयमियान् जनसम्मदः / अम्ब! किमद्य तातदर्शनमहोत्सवे शोकदुर्दिनान्धकारितवदनाऽसि ? / प्रयतख, व्रजामस्तातपादान् प्रणन्तुम् / राजा-(सानन्दं सबाष्पम् ) एथेहि वत्स! शीतांशुवंशमुक्तावचूल ! माम् / दो मृणालमित्राभ्यामालिङ्ग पितरं निजम् // 11 // कुमार:- कथं नेदीयांस एव तातपादाः / (उत्थाय प्रणमति / )... . . . (राजा आलिङ्गय शिरसि चुम्बति / ) कुमारः-( मित्राणन्दमवलोक्य ) तात! वध्यनेपथ्यधारी राजसदसि कोऽयम् / राजा-महदस्य चरितमनाख्येयमिदानी पवित्रे भवत्सम्पर्कपर्वणि / ( पुनः सविनयं मित्राणन्दं प्रति) त्वमेवास्य स्वामी, त्वमसि जनकस्त्वं च जननी, ___ गुरुस्त्वं, बन्धुस्त्वं, त्वमसि परम मित्रमपि च / त्वया येनाऽऽकृष्टस्त्रिभुवनजनग्रासरभसप्रवेल्लजिह्वाग्रात् प्रसभमयमास्यात् पितृपतेः // 12 // (मित्राणन्दः सलज्जमधोमुखो भवति / )