________________ 37 कौमुदीमित्राणन्दरूपकम् / ... राजा-हा वत्स शशाङ्ककुलप्रदीप! कामिमां दुस्थामवस्थामाप्तोऽसि / ( ततः प्रविशति शिबिकाधिरूढः प्रनष्टसर्वक्रियः कुमारो लक्ष्मीपतिः प्रलपन्ती पत्रलेखा च / ) कामरतिः-भो भोः शिबिकावाहिनः ! सिंहासनस्य पादपीठे विमुञ्चत कुमारम् / ( शिबिकावाहिनस्तथाकुर्वन्ति / ) पत्रलेखा-अजउत्त! पिच्छ पिच्छ, वच्छस्स कीदिसं जादं ? / (राजा विलोक्य सहसा मूर्च्छति / ) कामरतिः- भो भोः पुरुषाः! त्वरध्वं त्वरध्वम् , उपनयध्वं उपनयध्वं चन्दनशिशिराम्भः कदलीपत्रव्यजनानि च / ( प्रविश्य पुरुषाश्चन्दनाद्यैरभिषिच्य राजानं वीजयन्ति / ) राजा-( चेतनामास्थाय कुमारस्योपरि निपत्य च साक्रन्दम् ) .. वत्स ! प्रसीद, कुलमण्डन ! देहि वाचं, हातुं कथं प्रवयसं पितरं क्रमस्ते / अस्तोकशोकजननीं प्रतिरुध्य निद्रामुद्रां निजान् परिरभख चिराय बन्धून् // 10 // (सर्वे तारस्वरं प्रलपन्ति / ) मित्राणन्दः-कालपाश ! किमपि विज्ञपयितुकामोऽस्मि / कालपाश:-अमात्य ! तस्करोऽयं राजानं विज्ञपयितुमिच्छति / कामरतिः-(साक्षेपम् ) इदानीं विज्ञापनायाः कः समयः ? / राजा-अमात्य ! किमभिधत्ते चौरः / कालपाश:-देव ! तस्करोऽयं राजानं विज्ञपयितुमिच्छति / राजा-व्यापाद्यमानो लभते विज्ञापनामेकाम् , तदयं विज्ञपयतु वराकः। मित्राणन्दः- अस्ति देव ! नः कुलक्रमागतो विषापहारमत्रः / कामरतिः-अरे ! म्रियमाणः कुशकाशानवलम्बसे / / राजा-महाभाग! भूयोऽप्येतान्येवाक्षराणि श्रावय / मित्राणन्दः-अस्ति नः कुलक्रमागतः शतशो दृष्टप्रत्ययो विषापहारमन्त्रः। 1) आर्यपुत्र ! पश्य पश्य, वत्सस्य कीदृशं जातम् ? /