________________ श्रीसोमतिलकसूरिविरचितं 20. . हरिरिव यलियन्दकरस्त्रिशक्तियुक्तः पिनाकपाणिरिव / कमलाश्रय विधिरिव जयति श्रीमूलराजनृपः॥१॥ चक्रे श्रीमूलराजेन नवः कोऽपि यशोऽर्णवः। .. परकीर्तिस्रवन्तीनां न प्रवेशमदत्त यः॥२॥ इत्यादींश्चौलक्यवंशोपश्लोकान् द्वात्रिंशत्सूत्रपादेषु द्वात्रिंशत् श्लोकानवलोक्य प्रमुदितो राजा व्याकरण : विस्तारयामास / ततो राजाज्ञया सर्वः कोऽपि हैमव्याकरणं पठति / भणति च। 22. भ्रातः! संवृणु पाणिनिमलपितं कातन्त्रकन्थाकथाम्, मा कार्षीः कटु शाकटायनवचः क्षुद्रेण चान्द्रेण किम् / कः कण्ठाभरणादिभिर्बठरयत्यात्मानमन्यैरपि, श्रूयन्ते यदि तावदर्थमधुराः श्रीसिद्धहेमोक्तयः॥१॥ श्रीसिद्धराजदिग्विजयवर्णने याश्रयनामा ग्रन्थः समर्थितः / श्रीहेमसूरीनभ्यथ्ये सर्वविद्याविशारदान् / व्याकरण सिद्धहेमं ततो राजा प्रवत्तयत् // 31 (पाठान्तरेण-सिद्धहेमचन्द्राख्यं स व्यधापयत् / ) 614. अथान्यस्मिन्नवसरे श्रीसिद्धराजः संसारसागरतितीर्षया सर्वदर्शनेषु सुदेवत्व-सुधर्मत्व-सुपात्रत्वजिज्ञाशया पृच्छयमानेषु निजस्तुति-परनिन्दापरेषु सन्देहदोलाधिरूढमानसः श्रीसिद्धराजो हेमाचार्यमाकार्य विचार्य" कार्य पप्रच्छ / आचार्यस्तु चतुर्दशविद्यास्थानरहस्यं विमृश्य इति पौराणिकनिर्णयो वक्तुमारेभे–'यत् पुरा कश्चिद् व्यवहारी पूर्वपरिणीतां पत्नी परित्यज्य संगृहिणीसात्कृतसर्वस्वः, सदैव पूर्वपल्या पतिवशीकरणाय तद्वेदिभ्यः कार्मणकर्मणि पृच्छमाने कश्चिद् गौडदेशीय इति प्राह-रश्मिनियत्रितं तव पतिं करोमि।' इति उक्त्वा, किंचिदचिन्त्यवीर्य भेषजमुपनीय भोजनान्तर्देयमिति भाषमाणः, कियदिनान्ते समागते क्षयाहनि तस्मिंस्तथाकृते, स प्रत्यक्षां वृषतामाप / सा च तत्प्रतीकारमनवबुध्यमाना विश्वविश्वाक्रोशान् सहमाना निजदुश्चरितं शोचयन्ती, कदा-" चिन्मध्यन्दिने दिनेश्वरकठोरतरकरनिकरप्रसरतप्यमानाऽपि शाड्वलमूमिषु तं वृषभरूपं पति चारयन्ती, कस्यापि तरोर्मूले विश्रान्ता निर्भरं विलपन्ती, आलापं नभसि अकस्मात् शुश्राव / तदा तत्रागतो विमानाधिरूढः पशुपतिमवान्या तदुःखकारणं पृष्टो यथावस्थितं निवेद्य च, तरोश्छायायां पुंस्त्वनिबन्धनमौषधं तन्निबन्धादादिश्य तिरोदधे / सा तदनु तदीयां छायां रेखाङ्किता निर्माय तन्मध्यवर्तिन औषधाकुरान् उच्छेद्य वृषभवदने निक्षिपन्ती, तेनाऽप्यज्ञातस्वरूपेण औषधाकुरेण वदनन्यस्तेन स वृषभो मनुष्यतां प्राप / यथा तदज्ञातस्वरूपेणापि भेषजाडरेण सा समी-- हितां कार्यसिद्धिं चकार, तथा कलियुगे मोहान्धिते तिरोहितपात्रपरिज्ञाने सभक्तिकं सर्वदर्शनाराधनेनाविदितस्वरूपमपि मुक्तिप्रदं भवतीति निर्णयः। पुनः पात्रपरीक्षाविचारे श्रीहेमसूरयः प्राहुः-राजन् ! द्वैपायन-युधिष्ठिर-भीमसंवादे पात्रपरीक्षायां भीमः प्राह२३. मूर्खस्तपस्वी राजेन्द्र ! विद्वांश्च वृषलीपतिः। उभौ तौ द्वारि तिष्ठेते कस्य दानं प्रदीयते // 1 // युधिष्ठिर उवाचसुखासेव्यं तपो भीम ! विद्या कष्टदुरासदा। विद्वांसं पूजयिष्यामि तपसा किं प्रयोजनम् // 2 // भीमोऽप्यूचेश्वानचर्मगता गंगा क्षीरं मद्यघटस्थितम् / अपात्रे पतिता विद्या किं करोति युधिष्ठिर ! // 3 // 25 .