________________ पुरातनाचार्यसंगृहीत चिदानन्दमयं यस्य स्वरूपं योगचक्षुषा / पश्यन्ति योगिनो नित्यं स श्रीनेमिजिनः श्रिये // 2 // इत्यादि स्तुत्वा, धर्मशिलायामुपविश्य प्रासादरम्यतां विलोक्योचे-धन्यौ मातृपितरौ तस्य, येनेदं मन्दिर कारितम् / अत्रावसरे परशुराम उवाच-'राजन् ! धरणीतले श्रीकर्णदेव-मयणलदेव्यो धन्यौ, ययोः * भवान् सूनुः / श्रीकर्णविहारोऽयं मरिपत्रा कारितो वर्षत्रयोद्राहितव्ययेन / यदि देवपादानां प्रासादेच्छा विद्यते तदा प्रासादः; यदि वा द्रव्येच्छा, तदा द्रव्यं व्यवहारिगृहे स्थापितमस्ति / तन्निशम्य प्रमुदितो राजा प्राह-'भव्यं सज्जनेन दण्डाधिकारिणा कृतम् / यदत्र कृत्यं भवति तत्सर्वमपि त्वं कारव'- इत्यादिश्य देवदाये ग्रामद्वादशकं दत्वा श्रीशचुंजयमाजगाम / आकृष्टकृपाणकैर्विनिषिद्धो रात्रौ समारुरोह / श्रीयुगादिदेवस्य सरोमाञ्चं पूजां विधाय स्तुतिमकरोत् / यथा॥ 17. नमोऽस्तु युगादिदेवाय तस्मै ज्ञानमयात्मने / प्रावर्तन्त यतः सर्वा हेयोपादेयबुद्धयः॥१॥ चराचरं जगत्सर्वं यस्यान्तःप्रतिविम्बितम् / तस्मै युगादिदेवाय परमज्योतिषे नमः॥२॥ इति श्रीआदिजिनं स्तुत्वा द्वादशग्रामान् देवदायं कृत्वा, विविधतोरणपताकालक्षलक्षितं श्रीपत्तनं प्राप। . // 613. प्रतिदिनं सर्वदर्शनेषु आशीर्वाददानायाहूयमानेषु यथावसरमाकारिता जैनाचार्याः श्रीहेमचन्द्रमुख्याः / सिद्धराजनृपेण दुकूलादिनाऽवर्जिताः / सर्वैरपि कविभिरप्रतिमप्रतिभाभिरामैधिाऽपि पुरस्कृतो नृपतये श्रीहेमचन्द्र इत्याशिषं पपाठ भूमि कामगवि खगोमयरसैरासिञ्चरत्नाकरा, मुक्तास्वस्तिकमातनुध्वमुड्डुप त्वं पूर्णकुम्भीभव। छित्त्वा कल्पतरोदलानि सरलैर्दिग्वारणास्तोरणा न्याधत्त खकरैर्विजित्य जगतीं नन्वेति सिद्धाधिपः॥१॥ अस्मिन् काव्ये निःप्रपञ्चे प्रपश्यमाने, तद्वचनचातुरीचमत्कृतचेता नृपतिस्तं प्रशंसन्, कैश्विदसहिष्णुभिरस्मच्छाआध्ययनबलादेतेषां विद्वत्तेत्यभिहिते, राज्ञा पृष्टाः श्रीहेमचन्द्राचार्याः प्राहुः-'पुरा श्रीजिनेन श्रीमन्महावीरेण इन्द्रस्य पुरतः शैशवे यद्व्याकृतं तत् जैनेन्द्रं व्याकरणं वयमधीयामहे / ' इति वाक्यानन्तरम्, 'इमां पुराणवार्तामपहाय, - अस्माकं संनिहितं कमपि व्याकरणकर्तारं ब्रूतः।' इति तपिशुनवाक्यानन्तरं नृपं सूरयः प्राहुः-'यदि श्रीसिद्ध राजः सहायीभवति, तदा कतिपयैरेव दिनैः पञ्चाङ्गमपि नूतनं व्याकरणं स्वयं रचयामः।' अथ नृपेण प्रतिपन्नम् / 'राजन् ! इदं भवता निर्वहणीयमि'त्यभिधाय तद्विमृष्टाः स्वपदं सूरयः प्रापुः / ततो बहुभ्यो देशेभ्यस्तत्तद्वेदिभिः * पण्डितः समं सर्वाणि व्याकरणानि समानीय.श्रीहेमचन्द्राचार्यैः श्रीसिद्धहेमाभिधानं प्रधानमभिनवं पनाङ्गमपि व्याकरणं सपादलक्षग्रन्थप्रमाणं संवत्सरेण रचयांचके / राजवाह्यकुम्भिकुम्भे तत्पुस्तकमधिरोप्य सितातपवारणे * ध्रियमाणे चामरग्राहिणीभ्यां चामरयुग्मं वीज्यमानं नृपमन्दिरमानीय, प्राज्यवर्यसपर्यापूर्वकं कोशागारे न्यधीयत / नृपाज्ञयाऽन्यानि व्याकरणानि अपहाय तस्मिन्नेव व्याकरणे सर्वथाऽधीयमाने, केनापि मत्सरिणा भवदन्वयवर्णनाविरहितं व्याकरणमिति व्याहरता, क्रुद्धं [नृपं] नृपाङ्ग [रक्षक] वचनादवबुद्ध्य द्वात्रिंशत् श्लोकान्, नूतनान् निर्माय, द्वात्रिंशत्सूत्रपादेषु तान् सम्बद्धानेव लेखित्वा प्रातर्नृपसभायां वाच्यमाने व्याकरणे