________________ कुमारपालप्रबोधप्रबन्ध तथेति कृत्वा संसाध्य सुराष्ट्रामण्डलं नृपः / चकार वामनस्थल्यां सज्जनं दण्डनायकम् // 15 ततो मदनपालेन विज्ञप्तः कर्णभूपतिः / साधं धनेश्वराचार्यरारूढो रैवताचलम् // सज्जनोऽपि स्वगुरुभिः श्रीभद्रेश्वरसूरिभिः / चतुर्विधेन संघेन सार्ध राजानमन्वगात् // श्रीनेमिभवनं जीर्ण वीक्ष्य काष्ठमयं ततः / सज्जनो गुरुणादिष्टो जीर्णोद्धारकृते कृती // 11. यतः-जिणभुवणाई जे उद्धरंति भत्तीए सडियपडियाई / ते उद्धरंति अप्पा भीमाओ भवसमुद्दाओ // 1 // 12. अथवा-अप्पा उद्धरिओ चिय उद्धरिओ तह य तेहिं नियवंसो। ___ अन्ने य भवसत्ता अणुमोयंता य जिणभवणं // 2 // - युक्तमिदमुपदेशकथनं साधूनाम् / यतः राया-अमच्च-सेट्टी-कुटुंबिए वावि देसणं काउं। . जिण्णे पुवाययणे जिणकप्पी वावि कारवइ // 3 // जीर्णोद्धाराय विज्ञप्तः सज्जनेन नृपस्ततः / सुराष्ट्रोद्राहितं दत्वाऽणहिल्लपुरमाययौ // अथ भद्रेश्वरः सूरिः सजनेन सहाष्टमम् / तपः कृत्वाऽम्बिकादेवीमाह्वानयददीनधीः // प्रत्यक्षीभूय साऽप्यूचे युवाभ्यां किमहं स्मृता / सूरिराह नेमिचैत्यमुद्धरिष्यति सज्जनः॥ तदेनमनुजानीहि पाषाणखनिमादिश / अंबाऽप्यूचे भवत्वेतदल्पायुः पुनः सजनः॥ दण्डाधिपः प्राह कार्यस्तीर्थोद्धारो विशेषतः / परलोकप्रस्थितानां पाथेयं धर्म एव यत् // 14. दीपे म्लायति तैलपूरणविधिः स्तोयं द्रुमे शुष्यति, प्रावारो हिमसंगमे जलगृहं ग्रीष्मज्वरोजागरे / निर्वातं कवचं शरव्यतिकरे रोगोद्भवे भेषजम् , धर्मो मृत्युमहाभये सति सतां संसेवितुं युज्यते // 1 // अम्बानुज्ञां ततो लब्ध्वा पाषाणस्य खनिं च सः / श्रीनेमिचैत्यं षण्मास्यां कलशान्तमकारयत् // 25 ज्येष्ठस्य सितपञ्चम्यां शिरोऽर्त्याऽऽत्र्तोऽथ सजनः। अम्बादेवीवचः स्मृत्वा जातपंचत्वनिश्चयः॥ 26 आदिश्य परशुरामं स्वपुत्रं ध्वजरोपणे / भद्रेश्वरगुरोः पार्थे संस्तारव्रतमग्रहीत् // दिनाष्टकं पालयित्वाऽनशनं सजनो मुनिः / दिवं जगाम पुत्रोऽथ ध्वजारोपं व्यधापयत् // 28 612. द्वयोः राज्ञो कत्रावस्थानं युक्तमिति आशापल्लीनिवासिनं प्रबलभुजबलशालिनं आशाकं भिलं - जित्वा कर्णावतीं पुरीं विधाय, 29 वर्षाणि राज्यं कृत्वा पञ्चत्वमाप / अत्रान्तरे परशुरामेणाचिन्ति-राजा जयसिंहनामा दण्डं सोधयिष्यति तदा किं भावी / तदा वामनस्थलीनिवासिभिर्व्यवहारिभिर्दण्डदानं प्रतिपन्नम् / अथ पञ्चत्वमापन्ने कर्णदेवे महीपतौ / श्रीमान् जयसिंहदेवः स्वयं राज्यमपालयत् // 29 ततः समुद्रमर्यादा मही तेन वशी कृता / सिद्धो बर्वरकश्वाथ सिद्धराजस्ततोऽभवत् / / 30 - इति घनतरेषु देशेषु निजाज्ञां जगन्मान्यां दापयित्वा वलमानो रैवताचलासन्नां वामनस्थली प्राप / " तत्र दण्डनायकमाकार्य दण्डमयाचत / दण्डाधिपेनोक्तम्-श्रीरैवताचलोपरि महाऽभयस्थाने निक्षिप्तोऽस्ति / ततो राजा रैवताचलं गन्तुमिच्छविप्रैर्मात्सर्यालिंगाकारमिति निषिद्धोऽपि श्रीकर्णस्य निजपितुर्गमनं श्रुत्वा छत्रशिलायां छत्रमोचनं च कृत्वा गतः / तत्र गजेन्द्रपदकुण्डे स्नात्वा श्रीनेमिजिनपूजां विधाय तुष्टाव / यथा परं ज्योतिः परब्रह्म परमात्मानमित्यपि। यं स्तुवन्ति वुधा नित्यं स श्रीनेमिजिनः श्रिये // 1 // 27