________________ पुरावनाचार्यसंगृहीत वशीकर्तुमिव स्वर्ग भीमदेवे दिवंगते / द्विचत्वारिंशद वर्षाणि राज्यं कृत्वा मनोरमम् // सौदर्यवर्यगांभीर्यप्रज्ञावुद्धिगुणोत्तमे / राज्यक्षमे क्षेमराजे कर्णो राज्यं न वाञ्छति // 4 राम इव क्षेमराजः स्मृत्वा भाषां पितुम्ततः / कर्ण महोपरोधेन स्वयं राज्ये न्यवीविशत् // 111. तस्य राज्ञी मयणल्लदेवी / तस्याः स्वरूपं किंचिदुच्यते- शुभकेशिनामा कर्णाटराद तुरंगमापहतः -प्रान्तरान्तभूमौ नीतः / कुत्रापि पत्रलवृक्षच्छायां सेवमानः प्रत्यासन्नदावपावके प्राणानामाहुतिं चाकरोत् / तत्सनुः जयकेशिनामा तद्राज्ये सचिवैरभिषिक्तः / तस्य राज्ञी विजया / तत्सुता मयणलदेवी नाम्नी समजनि / सा च शिवभक्तैः श्रीसोमेश्वरस्य नाग्नि गृहीतमात्र एव इति पूर्वभवमस्मात्-ि 'यत् पूर्वभवेऽहं ब्राह्मणी द्वादशमासोपवासान् कृत्वा, प्रत्येकं द्वादशवस्तूनि तदुधापनके दत्त्वा, श्रीसोमेश्वरनमस्याकृते याहुलोडनगरं प्राप्ता / तत्करं दातुमक्षमाऽग्रतो गन्तुमलभमानाच्च-"अहमागामिभवेऽस्य करस्य मोचयित्री भूयासं" इति कृतनिदाना विपद्यात्र' " जाता' -इति पूर्वभवस्मृतिः / अथ सा श्रीबाहुलोडकरमोचनाय गूर्जरेश्वरं प्रवरं वरं कामयमाना मातरं प्रति तं वृत्तान्तं निवेदितवती। जयकेशिराज्ञाऽपि तं व्यतिकरं ज्ञापितः श्रीकर्णः। स्वप्रधानपुरुषैः मयणल्लदेव्याः कुरु निशम्य तस्मिन्मन्दादरे, तस्मिन्नेव राज्ञि निर्बन्धपरां तामेव स्वयंवरां प्राहिणोत् / अथ श्रीकर्णनृपो गुप्तवृत्त्या खयमेव तां कुत्सितरूपां विलोक्य सर्वथा निरादरपरो जातः / ततः सा दिक्कन्याभिरिव मूर्तिमतीभिरष्टामिः सहचरीभिः सह नृपतिहत्याकृते प्राणान् परिजिहीर्षः, श्रीउदयमत्या राज्या तासां विपदं द्रष्टुमक्षमतया तामिः सह "प्राणसंकल्पश्चके। 10. यतः-स्खापदि तथा महान्तो न यान्ति खेदं यथा परापत्सु / ____ अचला निजोपहतिषु प्रकम्पते भूः परव्यसने // 1 // __ इति न्यायात्, तदाग्रहादेव, अनिच्छुनापि सर्वथा श्रीकर्णेन सा परिणिन्ये / तदनन्तरं दृग्मात्रेण सर्वथा तामसम्भावयन् , कस्यामधमयोषिति साभिलाषं नृपं मुंजालमंत्री कञ्चुकिना विज्ञाय, तद्वेषधारिणी मयणलदेवीं * ऋतुस्नातामेव रहसि प्राहिणोत् / तामेव स्त्रियं जानता नृपतिना सप्रेम भुज्यमानायास्तस्या आधानं समजनि / तदा च तया संकेतज्ञापनाय नृपकरात् नामाङ्कितमङ्गुलीयं निजाङ्गुल्यां न्यधायि / प्रातः तदुर्विलसितात् प्राणपरित्यागोधताय नृपतये स्मार्तेस्तप्तताम्रमयपुत्तलिकालिङ्गनमिति निवेदिते, प्रायश्चित्ताय तत्तथैव चिकीर्षवे, स मंत्री यथावदथावदत् / सुलग्ने जातस्य तस्य सूनो पतिना जयसिंह इति नाम निर्ममे / स बालकत्रिवार्षिकः सवयोभिः समं रममाणः सिंहासनमलंचक्रे। तद् व्यवहारविरुद्धं विमृश्य नृपेण पृष्टेनैमित्तिकैस्तस्मिन्नेवाभ्युदयिनि लमे निवेदिते . राजा तदैवाभिषेकं चकार / वयं तु देवयात्रायां गन्तुमना अभूत् / पालयत्यन्यदा राज्यं जयसिंहे नरेश्वरे / चचाल देवयात्रायां कर्णः कर्ण इवापरः॥ 6 श्रीदेवपत्तनादर्वाक् गव्यूतैः सप्तभिः स्थितः / प्रासादं सोमनाथस्य दृष्ट्वाऽभिग्रहमग्रहीत् // 7 यथा- पापक्षयं हारं चंद्रादित्याख्यकुंडले / श्रीतिलकमंगदं च परिधाय समाहितः // * यदा सोमश्वरं देवं पूजयिष्यामि भक्तितः / भोक्ष्ये तदाशनं पानं तांबूलमपि नान्यथा // स्नात्वा प्रभासे श्रीकणों यदायाचत भूषणम् / कोशाधिपस्तदा स्माह नादिष्टं स्वामिभिस्ततः // आभरणं पत्तनेऽस्थात् विपण्णश्च ततो नृपः / तदा मदनपालाख्यो मंडलीकोऽब्रवीदिति // मा विपीद महाराज ! मत्रसिद्धिधरा यतः / मया सन्ति सहानीताः श्रीधनेश्वरसूरयः // अथ च राज्ञाभ्यर्थितैस्तैरणहिल्लपत्तनात् / आकृष्टिमन्त्रेणाकृष्याभरणं तत्समर्पितम् // संपूर्णाभिग्रहो राजा प्राह सूरिवरं प्रति / युष्माभिर्जीवितं दत्तं ममाभिग्रहपूरणात् // गृहाणं तदिदं राज्यमित्युक्तः सूरिरब्रवीत् / रक्ष जीववधं राजन् नवरात्रद्वयेऽपि हि //