________________ 36 पुराननाचार्यसंगृहीत 64. ततः श्राद्धर्मातुः समर्पितः सन् स चौरमातुलेन सह धाव्यादौ परिग्रमन् , अन्यदा काकरग्रामे कसापि पनिनो गृहे खात्रं दत्वा प्रविष्टो दधिभाण्डे करे पतित सति भुक्तोऽहमति सर्व हित्वा गतः / प्रातस्तत्पश्या श्रीदेव्या गोरसे हस्ताङ्गुलिचिह्नानि घृतभृतानि दृष्ट्वा 'कोऽप्ययं महापुरुषो भाग्यवान्' इति तं बान्धवत्वेन प्रतिपथ, 'तं दृष्ट्वा मोक्ष्यामी'ति कृतप्रतिज्ञा / तत्खरूपमाकर्ण्य रात्री समागतो धनराजो गुप्तवृत्त्या भोजनवनादिना ' सत्कृतो 'मम राज्याभिषेके त्वयैव भगिन्या तिलकं कार्य'मिति प्रतिज्ञाय गतः। 65. अन्यदा वनराजेन कोऽपि वने जांबाको वणिक् रुद्धः / शरपञ्चकमध्यात् , शरद्वयं भूमौ मुञ्चन् कारणं पृष्टः प्राह-'यूयं त्रयो जनाः, शरास्तु पञ्च; तेन द्वाभ्यामधिकाभ्यां किं प्रयोजनमिति'-प्रोक्ते 'कोऽप्ययं सत्त्वशाली शूरः पुमान् , मम राज्यकाले महामात्यो भावी'ति मुक्तो जांबाकः कृतप्रणामः किमपि शंबलादिकं दत्त्वा गतः। एकदा गूर्जरपंचकुलं षण्मासैरुद्वाहितसुराष्ट्रामण्डलं चतुर्विंशतिलक्षहैमनाणकान् चत्वारिंशतानि जात्यतुरंगमान्. " लात्वा व्याधुट्यमानं पथि वनराजेन हत्वा सर्व जगृहे / ततो वर्ष यावत् कालुंभारवने स्थितिं कृत्वा कन्यकुजस्थितिरुत्थापिता। 66. ततो नवीनपुरनिवेशाय भूमिं विलोकयता वनराजेनाऽणहिल्लो नाम गोपः प्राप्तः / तेन यत्र शशकेन वा त्रासितस्तत् स्थानं दर्शितम् / ततस्तन्नाना अण हिल्लपुरं पत्तनं सकलवास्तुविद्याविचारपुरःसरप्राकारप्रतोली-परिखा-प्रासाद-विहार-हर्म्य-हम्तिशाला-तुरंगमशाला-भांडागार-कोष्ठागार-आयुधशाला-राजसभा॥ अलंकारसभा-स्नानगृह-भूमिगृह-धर्मशाला-दानशाला-सत्रागार-पानीयशाला-नाट्यगृह-क्रीडागृह-शांतिगृहशिल्पशाला-चन्द्रशालादिभिर्विशालं स्थापितम् / ततः पंचाशद्वर्पवयसो वनराजस्य राज्याभिषेकः / श्रीपत्तने संवत् 802 वर्षे श्रीशील[गुणसूरिभिर्जेनमंत्रै राज्यस्थापना कृता / तदा पुरा प्रतिपन्नभगिन्या तिलकश्चके। तस्या महाप्रसादः / जांबाकः सर्वराजकार्यक्षमा महामात्यः समभृत् / श्रीगुरूपदेशेन राजा वनराजः पुण्यवान् कृतज्ञः पंचासरग्रामे श्रीपार्श्वनाथप्रतिमालंकृतनिजाराधकभूर्तियुतं प्रासादमचीकरत् / 6. गूर्जराणामिदं राज्यं वनराजा प्रभृत्यपि। ___ स्थापितं जैनमन्त्रैस्तु तद् द्वेषी नैव नन्दति // 1 // इति लोके प्रसिद्धिरभूत् / ततः षष्टिवर्ष वनराजस्य राज्यम् / पञ्चत्रिंशद्वर्ष तत्पुत्रयोगराजराज्यम् / पञ्चविंशतिवर्षाणि क्षेमराजराज्यम् / एकोनत्रिंशद्वर्षाणि भूयराजराज्यम् / पञ्चविंशतिवर्ष वैरसिंहराज्यम् / 5 पञ्चदशवर्षे रत्नादित्यराज्यम् / सप्तवर्ष सामन्तसिंहराज्यम् / एवं चापोत्कटकुले सप्तराजानोऽभूवन् / एवं संवत्सर (वर्षाणि) 196 / ततो दोहितृसन्ताने चौलुक्यकुले राज्यं गतम् / / 67. कथं गतम् ?-तथा चाह-कन्यकुब्जीयचौलुक्य श्र....त्य (भूयड ?) राजस्य सुतः कर्णादित्या, तत्पुत्रचन्द्रादित्य-तत्पुत्रसोमादित्य-तत्पुत्रो भुवनादित्यः। तस्य राज-बीज-दडक्कनामानस्त्रयः पुत्राः / प्रथमो राजकुमारः। " 7. दीसइ विविहचरियं जाणिजइ सुजण-दुजणविसेसो। अप्पाणं च कलिवइ हिंडिजइ तेण पुहवीए // 1 // __ इति विचार्य देशान्तरेषु परिभ्रमन् श्रीपत्तने समायातः / सामन्तसिंहं नृपं वाहकेली कुर्वन्तं दृष्ट्वाञ्चघाते राज्ञा दत्ते राजकुमारोऽनवसरदत्तेन कशाघातेन पीडितो हा हेति' शब्दमकरोत् / राज्ञा कारणं पृष्टोऽवदत्'देव ! अश्वे कृते शोभनगतौ कशाघातो मम मर्माभिघातः संजातः / ततो राज्ञा तस्यार्पितोऽश्वः / तेन चाश्व* शिक्षाकुशलेन दर्शितं वाहकेलीकौतुकम् / जातस्तयोः सदृशो योगः।