________________ पुरातनाचार्यसंगृहीत-गद्य-पद्यमयः कुमारपालप्रबोधप्रवन्धः। // अहं नमः॥ 1. खयं कृतार्थः पुरुषार्थभावैर्जगाद यस्तान जगतां हिताय / . नाथः प्रजानां प्रथमः पृथिव्यां जीयाद् युगादौ पुरुषः स कोऽपि // 1 // 2. प्रणमामि महावीरं सर्वज्ञं पुरुषोत्तमम् / . सुरासुरनराधीशैः सेव्यमानपदाम्बुजम् // 2 // . परा मनसि पश्यन्ती हृदि कण्ठे च मध्यमा। मुखे च वैखरीत्याहुर्भारती तामुपास्महे // 3 // अज्ञानतिमिरान्धानां ज्ञानाञ्जनशलाकया। नेत्रमुन्मीलितं येन तस्मै श्रीगुरवे नमः // 4 // 11. सकलसुरासुरनरनिकरनायकशिरःशेखरायमाणपादारविन्दश्रीसर्वज्ञोपज्ञपथपान्थप्रष्ठस्य कलिकालसर्वज्ञ-. श्रीहेमसूरिगुरूपदेशविवेकविशेषप्राप्ताशेषभूवलय डम्य सकलजन्तुजातजीवातुजीवदयाधर्मनिष्ठस्य निजभुजबलकलितसकलभूपालकुलविजयविलसद्यशःप्रतापगरिष्ठस्य श्रीमारपालभूपालम्य प्रारभ्यतेऽयं प्रयोधप्रयन्धः। तत्र केऽपि जिज्ञासवः प्रश्नयन्ति-'कोऽयं कुमारपालभूपाला, कश्चायं कलिकालसर्वज्ञश्रीहेमचन्द्रसूरिगुरुः / कयं च तस्य प्रतिबोधः १-इति सर्वमिदमावेद्यमानं श्रूयताम् / * 62. तथाहि-अस्मिन् जम्बूद्वीपे द्वीपे भरतक्षेत्रे युगलधर्मकाले प्रवर्त्तमाने तृतीयारकपर्यन्ते सप्तकुलकराः पुराऽ- . भूवन् / तेषु सप्तमः श्रीनाभिकुलकरः, तस्यादियोगिनी मरुदेविखामिनी धर्मपत्नी बभूव / तयोः पुत्रः सकलधर्मार्थकाममोक्षाणां चतुःपुरुषार्थानां प्रथमः प्रसाधकः, परेषामुपकाराय प्रथमोपदेष्टा, प्रथमः पुरुषः, प्रजानां सम्यग्योगक्षेमकरणात् प्रथमोः नाथः, शैशवे प्रचुरेक्षुयष्टिकृतावष्टम्भहृष्टत्वात् प्रणामागतेन्द्रस्थापितेक्ष्वाकुवंशः, समग्रैश्वर्यादिगुणोपेतत्वात् प्रथमभगवान् , प्रथमो जिनः समजनि / तस्मिंश्वेश्वाकुवंशे क्रमेण षट्त्रिंशद् राजकुलान्यभूवन् / तेषु महापुरुषरत्नसंकुले श्रीचौलुक्यकुले षट्त्रिंशलक्षग्रामाभिरामे कन्यकुब्जदेशे कल्याणकटकपुरे . श्रीभूयराजा राज्यं करोति / तेन राज्ञा स्वपुत्र्या महणल्लदेव्या गूर्जरधरित्री कञ्चकसम्बन्धे दत्ता / 63. इतश्च गूर्जरात्रैकदेशे वढियारदेशे पंचासरग्रामप्रदेशे बहिः श्रीशील[गुण] सूरयः शकुनावलोकनार्थ गता वनगहनमध्ये वृक्षशाखानिबद्धझोलिकं बालकमेकं दृष्ट्वा समीपस्थतन्मातरमूचुः-'भद्रे ! काऽसि त्वम् ? / ' तयोक्तम् - 'राजपत्नी अहम् / कन्यकुजदेशीयश्रीभूयराजभयेन चापोत्कटकुलकमलकमलवन्धोरस्य पुत्रस्य गोपनार्थमत्र स्थिताऽस्मि'। ततः श्रीसूरिभिरपराह्वेऽपि तदृक्षच्छायामनमितामालोक्य 'कोऽप्ययं महानरेश्वरो . भावी'ति तत्वरूपं श्राद्धानामावेद्य तस्य रक्षा कारिता / स च बालकः श्रीगुरुदत्तवनराजनामाऽष्टवार्षिको / राजचिरैः क्रीडन् परवालकासह्यतेजाः समभूत। 5. यतः-पीऊण पाणियं सरवरंमि पिडिं न दिति सिहिडिंभा। होही जाण कलावो पयइ चिअ साहए ताण // 1 //