________________ कुमारपालगुणोत्कीर्तनश्लोकाः। स्तुमस्त्रिसन्ध्यं प्रभुहेमसूरेग्नन्यतुल्यामुपदेशशक्तिम् / अतीन्द्रियज्ञानविवर्जितोऽपि यः क्षोणिभर्तुळधित प्रबोधम् // सत्त्वानुकम्पा न महीभुजां स्यादित्येप क्लुप्तो वितथः प्रवादः / जिनेन्द्रधर्ग प्रतिपद्य येन श्लाघ्यः स केषां न कुमारपालः // नृपस्य जीवाभयदानडिण्डिमैर्महीतले नृत्यति कीर्तिनर्तकी / समं मनोभिस्तिमिकेकितित्तिरिस्तभोरणकोडमृगादिदेहिनाम् // द्यूतासवादीनि नृणां निषेधादिहैव सप्तव्यसनानि भूपः / दुष्कर्मतो दुर्गतिसंभवानि परत्र तेषां त्वमितानि तानि // . पदे पदे भूमिभुजा निवेशितैर्जिनालयैः कामनदण्डमण्डितैः / निवारिता वेत्रधरीरिवोद्धृतैः स्फुरन्ति कुत्रापि न केऽप्युपद्रवाः॥ -श्रीसोमप्रभाचार्यः /