________________ श्रीसोमतिलकसरिविरचितं 720. 21 24 25 27 // पुत्रत्रिभुवनपालदेवम्य परमार्हतः / कुमारपालभूपालः सप्तव्यसनवारकः // सम्यक्त्वमाय श्रीहेमसूरिपादप्रसादतः / विधाम्यति महीपीटं जिनचैत्यविभूषितम् / / पञ्चाशद्वर्षदेशीयो राजाऽष्टादशदेशभुक् / त्रिंशद्वर्षाणि राज्यं च भुक्त्वा पुण्यपरो मृतः // तृतीयदेवलोकेऽसौ देवो भावी महर्द्धिकः / ततश्युत्वा विदेहेपूत्पद्य मोक्षं व्रजिष्यति // श्रुत्वेति जाग्रदुत्कण्ठातरङ्गितभवान्तरः / कर्णाटदेशे भूपालः प्रैपीचतुरमानुपान् // प्रत्यक्षं सर्वमेवेदं ज्ञात्वा तैस्तैरुपक्रमैः / सर्वोत्तरं महीपालो जैन धर्मममन्यत / / शङ्कादिदोपनिर्मुक्तं सम्यक्त्वं पालयन् दृढम् / एकच्छवं जैनधर्म चक्र केनाप्यभाणि यत् // आज्ञावर्तिषु मण्डलेषु विपुलेष्वष्टादशस्वादरा दब्दान्येव चतुर्दश प्रमुमरां मारिं निवा-जसा। कीर्तिस्तम्भनिभाचतुर्दशशतीसंन्यान विहारांस्तथा कृत्वा निर्मितवान् कुमारनृपतिर्जनो निजैनो व्ययम् // 633. अथ कच्छपराजस्य भार्यायाः पुष्पभूपतेः / महासत्या लक्षराजजनन्याः किल शापतः॥ श्रीमूलराजवंशीयराजन्यानां तदाद्यपि / लूतिनामा महारोगः सामति सुदुर्धरः ॥-युग्मम् // कुमारपालभूभर्तुताव्याधिर्यदा पुनः / बाधागधात् तदा सृरिः प्रणिदध्यौ तदायुषि // आत्मायुः सबलं वीक्ष्य तं च रोगवशायुषम् / अष्टाङ्गयोगाभ्यासन तं दोपमुदमूलयत् // चतुरशीतिवर्पायुमितैः श्रीहेमरसूरिभिः / निजावसानं निश्चित्यारेभेऽन्त्याराधनाक्रिया // तदर्थिदुःखिताय श्रीभूपाय प्रभवोऽभ्यधुः / षण्मासीशेपमेवास्ति तवाग्यायुरतः परम् // सन्तानाभावतो विद्यमान एव नराधिप ! / निजोत्तरकियां कुर्याः जागर्या धर्मवर्मनि // भाव्यराज्याधिपत्वादि कलिभावेन दुर्मदम् / उपदिश्य नृपस्याग्रे प्रभवोऽनशनं व्यधुः // पद्मासनसमासीनलयैकाग्र्यवशेन्द्रियाः / सूरयो दशमद्वारा चक्रिरे प्राणनिर्गमम् // संस्कारानन्तरं सूरेः पवित्रमिति भूपतिः / ववन्दे देहजं भस्म ततः सामन्तमण्डली // पौरामात्यादिवर्गश्च तथा मृत्स्नामपाहरत् / यथा तदारपदं हेलगतत्यद्यापि विश्रुतम् // प्रभुश्रीहेमसूरीणां शोकविक्रवमानसः / विज्ञप्तः सचिवै राजा सगद्गदमदोऽवदत // पुण्यार्जितशुभप्राप्तीन्न शोचामि प्रभूनहम् / सप्ताङ्गमपि साम्राज्यमिदं मे त्वप्रयोजकम् // तदेव खलु शोचामि राजपिण्डेन दूषितम् / यन्न लग्नं प्रभोरङ्गे मदीयमुदकाद्यपि // धर्मात्माऽपि स कप्टेन स्मारं स्मारं प्रभोर्गुणान् / षण्मासीमतिचक्राम च्यवनात इवामरः // अथ प्रभूक्ते दिवसे समाप्तायुः समाधिना / कुमारपालभूपालः खर्लोकमधितस्थिवान् // इति संक्षेपतः प्रोक्तं चरित्रं गूर्जरेशितुः।। कुमारपालप्रतिबोधशास्त्राद् ज्ञेयं विशेषतः / / इति श्रीरुद्रपल्लीयगच्छालङ्कारहारश्रीसंघतिलकसूरिशिष्यश्रीसोमतिलकसूरिविरचितं श्रीकुमारपालभूपालचरित्रं समाप्तं / [A आदर्शे-'सं० 1512 वर्षे आषाढमासे कृष्णपक्षे नवम्यां लिलेख / / '] 28 29 730 31 32 // 33 35 36 37 38 740 1B पदावतंसाचार्यश्री। 2 B प्रतिबोधचरित्रं / 3 B संक्षेपेण / कु. पा.च. 5