________________ 32 कुमारपालदेवचरितम् / यतः-कुमारपाल भूपालवारके वतिनामभूत् / तां राकादुर्दशां मुक्त्वा पूजैवेति प्रसङ्गगीः // *] 84 635. कलिकालैकसर्वज्ञान् मन्वानस्तानथो नृपः / परन्छ साग्रहं पूर्वभवं भवविरक्तधीः // अनन्योपायतासाध्यं विमृशन्तस्तदाग्रहम् / सिद्धचक्रमहामत्रं सस्मरुर्विधिपूर्वकम् / / तदधिष्ठायकः शक्रसामानिकसुरोत्तमः / पूजाजपतपोहोमध्यानादिप्रीणितान्तरः / / कुमारपालभूपस्य कृतपुण्यस्य भाग्यतः / अमलस्वामिनामाऽसौ सर्वर्द्धिः प्रकटोऽभवत् // अभ्यर्थितस्तदा हेमसूरिभिर्गुणभूरिभिः / महाविदेहक्षेत्रेऽगान्न मोघप्रार्थनाः सुराः // गत्वा सीमन्धरस्वामिपादान्ते गूर्जरेशितुः / पूर्वजन्म तथा भाव्यसिद्धिप्रान्तमबुधत् // ज्ञापयित्वा च श्रीहेमसूरये हर्षभूरये / यथागतं गतो देवो गुरवो नृपमूचिरे // 636. इहैव जम्बूद्वीपे श्रीदेशे कर्णाटनामनि / कल्याणपुरमित्यम्ति यथार्थाभिधया पुरम् // तत्र श्रेष्ठी गुणश्रेष्ठो धनदो निरवद्यधीः / यो जिनधर्मलाभेन मेने खं धनदोपमम् // तद्धर्मचारिणी जैनधर्मकाननसारिणी / गङ्गा गङ्गाजलस्वच्छा पत्युश्छायेव देहिनी / / आबालकालं तद्गहे पुत्रवत्पालितश्विरम् / कर्मकृन्नायको नाम निर्मायो भद्रकाशयः // सोऽन्यदा लोकमद्राक्षीचतुर्मासकपर्वणि / पूजाविधितपोदानपौषधव्रतसोद्यमम् // अहो धन्या अमी लोका यथावसरमागतम् / समृद्धा धर्मकर्मादि सर्वं सत्यपयन्ति ये // मादृक्षाः पुनराजन्मदरिद्रा मृतका इव / अपूर्णवाञ्छास्ताम्यन्ति भग्नपक्षा इवाण्डजाः // तदद्य निजशक्त्याहमपि पुण्यमुपार्जये / तपःपूजादिकं श्रेष्ठिपृष्ठलग्नोऽनुवादये। सञ्जातभावनोलाससञ्चितैः पञ्चरूपकैः / पञ्चव्रतपदानीव रक्तपुष्पाण्युपाददे // 700 पूजोपकृतिभृच्चैये जगाम श्रेष्ठिना समम् / चेतोऽनुसारतो भाव्यसम्पदेव' विकस्वरः // 701 श्रेष्ठिनः कुर्वतः पूजां तस्य भावं च बिभ्रतः / कोऽपि पुण्यविशेषो यस्तं वेद यदि केवली // 702 अथारोपयतो "जिनविम्बे पुष्पपरम्पराम् / ददौ सोऽपि वपुष्पाणि पूजार्थं श्रेष्ठिनः करें / 703 श्वेतपुष्पैविधायाचा तत्पुष्पाणि तदन्तरे / तथा निवेशयामास रेजे पूजा यथाधिकम् // 704 नायकोऽपि तथा दृष्ट्वा प्रचुरानन्दतन्मनाः / भावनां भावयामास रको निधिधनं यथा // धन्योऽहं यस्य पुष्पाणि व्यापृतानि जिनार्चने / अधन्यां रसनां मन्ये या न वेति जिनस्तुतिम् // 706 इयता कृतकृत्योऽस्मि यत्पुष्पैरन्तरास्थितैः / सुतरां शुशुभे पूजा रत्नेमौक्तिकहारवत् // 707 महाटव्यामिव सरः कानने जातिपुष्पवत् / इयत्कालं गतं जन्म वृथा मेऽधर्मजीविनः' धन्यः सोऽवसरो भावी यत्राहमपि वासरे / स्वयं पूजां करिष्यामि स्वभुजोपार्जितैर्धनैः॥ 709 भावनां भावयन्नित्यं गुरुवन्दनकाम्यया / जगाम पौषधागारे श्रेष्ठिना सह सोऽप्यथ // 710 उपवासतपश्चक्रे वन्दित्वा गुरुपादयोः / न न्ययुक्त कापि कार्ये श्रेष्ठी तमपि तद्दिने / प्रातर्भद्रकतां वीक्ष्य तस्मै पारणकाहनि / परमान्नं ददौ खेच्छं पुण्यं हि फलदं सदा // दासोऽपि दध्यौ धर्मस्य प्रभावोऽयमहो ! महान् / अलब्धपूर्व यल्लेभे पायसं गौरवं च तत् // अयमेव महाधर्माऽनुचार्याऽतःपरं मया / आकण्टभोजनान्जातमजीण कुक्षिशूलयुक् // आराधनां कारयतः श्रेष्ठिनाऽसौ समाधिना / विपद्य गूर्जरात्रायां जातश्वीलुक्यसद्मनि // 99 705 . 1B संपदिव। 2B जैनबिंबे। 3 Bsधमजीविनः /