________________ श्रीमोमतिलकमूरिविरचितं 72 73 श्रीवाग्भटमहामान्यज्ञापिताः प्रभवस्तदा / तत्कालं कलिलाकूतकलाकौशलशालिनः // कृत्वा जिनार्चनां सद्यो गुरुन्नन्तुमुपेयुपः / उपांशु दर्शयामास नृपतेरिन्द्रजालताम् // आविर्भूय त्रिभुवनपालः सुतमलीलपत्' / धन्योऽस्मि कृतकृत्योऽस्मि वत्स ! यजैनधर्म्यसि // सरकिन्नरनारीभिर्गीयमानं यशस्तव / श्रुत्वा सर्वाधिकं वत्स! स्वात्मानमभिमन्महे॥ उद्धृताः पूर्वजाः कृत्यैः कुलं चेदं पवित्रितम् / सत्पुत्र ! तव धर्मेण सुरसती रमामहे // श्रीवाग्भटपुरे पार्श्वचैत्ये मन्नामनिर्मिते / नित्यं कृतार्थयन्नस्मि पूजाकृत्यैर्निजं जनुः // तथैव माता वात्सल्यकुल्याभिस्तमसिञ्चत / प्रीणितात्मा नृपः स्मित्वा गुरूनाह सविस्मयम् // किमिदं कौतुकं नाथ ! विनाथीकृतमानसम् / पुरापीदृक्षमेवाहमद्राक्षमिदमन्यथा // सोलासं गुरवः प्राहुस्तथैवेदं यथा पुरा / ज्ञातव्या भ्रान्तिरेवेयं तत्त्वं त्वेकं जिनोदितम् // कृत्रिमाडम्बरैरन्यैर्धर्मः प्रौढिमवाप्यते / कर्तुढौंकयते प्रौढिं जैन एव परं विधिः॥ श्राद्धादौ दत्तपिण्डेन प्रियन्ते पितरो यदि / तदाऽन्यविहितं कर्म भुज्यतामपरैरपि / तथा च पुण्यलाभाय न केनापि प्रयत्यताम् / सर्वागमविरोधश्चानवस्था च सुदुर्धरा // सिद्धान्तदुग्धधाराभिधौतभ्रान्तिमलो नृपः / श्रीसर्वज्ञमतेनैव खं कृतार्थममन्यत // . इत्यादि वहुशो देशान्तरीयकृतविभ्रमैः / अदूपितमनोवृत्तिं सूरयश्चक्रिरे नृपम् // 34. [*द्विजाद्यैः प्रेरितः कश्चिद् भूपः पप्रच्छ प्रभुम् / किं जैनेष्वप्यदो राकाभूतेष्टादिमतान्तरम् // 74 // ऊचे प्रभुन भेदोऽयं तोयं तोयधरस्य वै / तडागाद्यापगाभिन्नभूस्थं किञ्चित्तु भिद्यते // 75 तद्वद् राका-चतुर्दश्याश्रयेऽप्येको जिनः पतिः / जिनदीक्षेषु सर्वेषु मिथः पर्यायवन्दनम् // 76 सर्वे जैनर्षयो मान्या जिनाज्ञा चेत्यतो न भित् / राकाद्या भिच पाश्चात्या नैव चिन्त्या विपश्चिता // 77 इत्यालप्य विलुप्य भूपतिमनःकालुष्यमागात् प्रभुः स्वस्थाने मुनिपुङ्गवांश्च सकलानाकार्य राकाङ्कितान् / मन्यध्वं मुनिनिर्मितां प्रथमतो यूयं प्रतिष्ठां ततो राकापाक्षिकमागमोक्तविधितः कुर्मो वयं चेत्यवक् // प्रपद्य ते स्वीयमुपाश्रयं ययू राकाङ्कगच्छेषु मिलत्सु सत्वरम् / इतः स्थविर्यार्यकया सुमुख्यया सूरिभाषे सुमतिः समौढ्यया // श्राद्धप्रतिष्ठां विजहन्न लजसे सिद्धान्तगुर्वोरपलापपापकृत् / / गुरुक्रमे चेत् किल कापि शिष्यणी न्यवेक्ष्यत त्वद्रुवतामलप्स्यत // तदा तया चण्डिकयेव भाषितः श्रीहेममूचे सुमतिस्त्वकम्पितः / स्याद् यद् यथा तच्च तथाऽस्तु निःकृपं प्रभोर्गणिपियति स्म तन्नृपम् // नृपाज्ञया श्रीसुमतौ तु गूर्जरधरां विहाय ब्रजिते च कुङ्कणम् / नश्यत्सु चान्येष्वपि निश्रया प्रभोः कति स्थिताः साधुतया च विश्रुताः // किञ्च - केकेय्युक्तिवशो व्यधाद् दशरथः पुत्रं प्रवासादरं, __ पद्मावत्युदितश्च कोणिकपो दुर्धायुधं बन्धुभिः। रङ्कः कङ्कसिकार्थमङ्कगसुतानुन्नोऽकरोत् पूरक्षयं तद्वत् पाक्षिकमेकतां व्रजदपीत्यस्थाद् व्रतिन्या गिरा / / 1B °मलालयत्। * एतानि कोष्ठकगतानि सर्वाण्यपि पद्यानि नोपलभ्यन्ते B सज्ञके आदर्श /