________________ कुमारपालदेवचरितम्। . 42 शयिते गूर्जराधीशे किंवदन्तीमिमां तदा / हिताय श्रावयामास दारुणामपि चारणः // 29 गड फुटुं' वेयण गई विग्गहिं लया गइंद। मत्तउ' चालू चक्कवइ निम्भर आवइ' निंद' // बलीउ' भूयवइ जं करइ तं सहु करणह जुत्तु / मांडवि जग सरिस्यूं वयरा काई सूइ निच्चंत // इत्याकर्ण्य महीपालो जातो भावद्वयाकुलः / प्रधानश्च कृतः सन्धिः समये शोभतेऽखिलम् // श्रीनागपुरदुर्गान्तः प्रेष्य पञ्चकुलं नृपः / प्रासादं कर्तुमारेभे व्यारम्भो न तादृशाः(शाम् 1) // 632. कुमारपालभूपालः समं वीसलभूभुजा / सङ्ग्राममभिसन्धाय जगाम निजपत्तनम् // . राज्ञा वीसलदेवेन भगिनीपतिना समम् / जातं गतागतं दूतैः श्रीमतो गूर्जरेशितः // . सन्धिविग्रहिकस्तस्यान्यदा पृष्टो महीभुजा / मंग्या स क्षेममाहेति 'विश्वं ला ती ति विश्वलः' // तद्विचक्षणतागर्वखैर्वीकरणदक्षणः / श्रीकपर्दिमहामात्यमुत्तरायादिशन्नृपः॥ 'विः' पक्षी तद्वदेवासौ 'श्वलती'ति विखण्डिते / 'विग्रह राज' इत्याख्यां स प्रधानो यदाज्मणत् // 38 'विग्रौ' विनाशिको क्लुप्तौ ह-राजाविति खण्डिते / 'कविवान्धव' इत्याख्यां स्वस्य धारितवान् ततः॥ 39 सपादलक्षदेशेऽथ जिनधर्मप्रवृत्तये / कुमारपालभूपालः समियाय बलाधिकः // 640 समं विग्रहराजेन विगृह्य रणकौतुकी / जीवग्राहं तमादाय मुमोच भगिनीगिरा // तदीये मण्डले जैन धर्ममार्ग प्रवर्तयन् / तिलपीडनयत्राणि मिथ्यात्वमिव भञ्जयन् // सर्वत्र स्थापयन् धर्मस्थितिं सह निजाज्ञया / श्रीमांश्चौलुक्यराजेन्द्रो गूर्जरात्रामुपागमत् ॥-युग्मम् 43 633. एकदा देवबोधाख्यो योगी कपिलदर्शनी / जैनीभूतं नृपं श्रुत्वा स्खकलादुर्मदाशयः॥ चकोरहंससारङ्गाधिरूढैर्योगिभिर्वृतः / आगतः कदलीपत्राधिरूढो नृपपर्षदि // राजा सर्वोपधाशुद्धधर्मधौतमलोऽपि हि / स्फटिकोपलवत् किञ्चित् तत्कलारखितोऽभवत् // श्रीवाग्भटमहामात्यज्ञापिताः प्रभवोऽपि हि / योगशक्त्या परित्यज्य चतुरङ्गुलभूमिकाम् // विधाय पश्यतो राज्ञः स्वकार्य तूलवल्लघुम् / विस्मयं दलयामासुः स्मयं वादिगिरामिव // , नृपचित्तविमोहार्थं स एव पुनरन्यदा / प्रत्यक्षं मातापितरौ दर्शयामास विद्यया // पिता जगाद वत्स ! त्वं पाखण्डैविप्रतारितः / कुलाचारमनाचारवचनैर्मुक्तवानसि // जैनश्राद्धतया श्राद्धपिण्डादि न ददासि यत् / तेन दिक्षु क्षुधाक्षामो भ्रमामि क्ष्मापतौ त्वयि // 51 यन्मुक्तं तुच्छवाक्येन तिथिपर्वोत्सवादिकम् / न लेभेऽहमतस्तात ! प्रवेष्टुं सुरपर्षदि // 52 जाते त्वयि मया वत्स ! विहिता ये मनोरथाः। ते सर्वे विफलीभूता भूतावेशोऽस्ति किं नु ते // 53 दीनानना पुनर्माता ताम्यन्तीव तदाऽवदत् / वरं वन्ध्या वरं निन्दुर्वरं निःस्वसुता प्रसूः॥ 54 न पुनस्त्वादृशो वत्स ! सार्वभौमः सुतोत्तमः / यत्कृत्यैर्जायते माता हीनानामपि हास्यताम् ॥-युग्मम् 55 श्रुत्वेति दृढसम्यक्त्वसुधानिर्भरधीरपि / तद्वचो विषवेगेन मोहमित्थमधारयत् // वकर्मवशगा जीवाः म्वकृतं कर्मभुञ्जते / चराचरहितं जैनं वाक्यं चेति मतं मम // 57 पितृभ्यामुत्तमेवं च शृणोमि निजकर्णयोः / हितौ च मातापितरौ तदिदं किमु सूनृतम् // इत्याद्यमन्दसन्देहदोलान्दोलितमानसः / यावत्तस्थौ हृदालीनलयो योगीव भूपतिः // 44 650 56 6 सुहकरणह जुत्त. मांडिवि. B आदर्शगताः पाठभेदा:-१ गडफुडउ. 2 सुत्तउ. 3 आई. 4 निद्द. 5 बलियउ, 4 सरिसउ. वयक. १.सूयहिं निश्चितु. 1A तामर्थखा। 2 B दक्षिणः /