________________ 28 कुमारपालदेवचरितम् / प्रातः श्रीसुव्रतखामिप्रणिपातसमाहिताः / आसेदिवांसः प्रासादं तुष्टुवुर्जिननायकम् // संसारार्णवसेतवः शिवपथप्रस्थानदीपारा विश्वालम्बनयष्टयः परमतव्यामोहकेतूद्गमाः। किश्चास्माकमनोमतंगजदृढालानैकलीलाजुष ___ स्त्रायन्तां नखरदमयश्चरणयोः श्रीसुव्रतस्वामिनः॥ श्रीमदाम्रभटस्सेत्थमुपकृत्य महर्षयः / ययुर्यथागतं लोकहिताशेपप्रवृत्तयः // वाग्भटाम्रभटामात्यो चक्राते परमाहतौ / लाट-कुङ्कणदेशेषु विहारालङ्गतां भुवम् // 629. अथान्यस्मिन्नवसरे श्रीकुमारनरेश्वरः / कामन्दकीमहानीतिशास्त्रं शुश्राव कोविदात् // . 'पर्जन्य इव भूतानामाधारः पृथिवीपतिः। विकलेऽपि हि पर्जन्ये जीव्यते न तु भूपतौ॥' श्रुत्वेति प्राह 'भूभत रुपम्या तर्हि नीरदः।' चक्रुः सामाजिकाः सर्वे न्युञ्छनानीयता प्रभोः॥ 91 तिलोक्यावामुखं राजा तदानीं तु कपर्दिनम् / न व्यर्थं चेष्टते ह्येष इत्येकान्ते तमब्रवीत् // 92 खामिन् ! 'उपम्या' शब्दोऽयं सर्वशास्त्रेषु निन्दितः / छन्दानुवर्तिनस्त्वेतेऽभिनन्दन्ति वृथा प्रभुम् // 93 अराजकं वरं स्वामिन् ! न तु मुखौं महीपतिः / अकीर्तिस्ते च विद्वेपिमण्डलेषु प्रसर्पति // .. 94 उपगेयम् , उपमानम् , औपम्यम् , उपमा तथा / तुल्यार्थवाचकाः शब्दाः शुद्धा व्याकरणेष्वमी // 95 श्रुत्वेति युक्तोपन्यस्तं तद्वाक्यं लजितो नृपः / आस्थानोत्थायमेकान्ते पाठवेलामचीक्लपत् // 96 पञ्चाशद् वर्षदेश्योऽपि वर्षेणैकेन भूपतिः / वृत्ति-काव्यत्रयं कस्मादप्युपाध्यायतोऽपठत् // नित्यं पैचुष्यवैदुष्यसामग्र्या पक्वधीनृपः / विद्वत्सु बिरुदं लेभे श्री विचार चतुर्मुखः // कदाचिदन्यदा विश्वेश्वरनामा महाकविः / श्रीसोमनाथमुद्दिश्य प्रतस्थे काशिदेशतः // 99 अणहिल्लपुरे प्राप्तो हेमसूरीन्द्रपर्षदि / ससामन्तनराधीशसेवितं वीक्ष्य तं जगौ // 600 'पातु वो हेमगोपालः कम्बलं यष्टिमुद्वहन् / ' साभिप्रायं भणित्वेति बुधो यावद् विलम्पते // 601 नृपं निरीक्ष्य सक्रोधं प्रभूणां हीनवर्णनात् / तदिङ्गितज्ञो विज्ञो द्रागुत्तरार्धमुदाहरत् // 602 'पददर्शनपशुग्रामं चारयन् जैनगोचरे / ' भूपोऽपि हृषितस्तस्मै तदासनमदापयत् // 603 पाण्डित्यगोष्ठीमासूत्र्य प्रभुभिः सह पण्डितः / सुतरां मुमुदे राजमराल इव मानसे // 604 रामचन्द्रादिसाधूनां परीक्षार्थमथो बुधः / 'व्याषिद्धेति' समस्यायास्तुरीयं पादमाख्यते // 605 रामचन्द्रमुनिर्यावत् प्रकाशं वक्तुमैहत / उत्कलोलमनाम्भोधिः श्रीकपर्दी तदाऽवदत् // 606 नैतस्याः प्रमृतिद्वयेन सबले शक्येऽपि धातुं दशौ, सर्वत्र प्रतिभाव्यते' मुखशशिज्योत्स्नावितानैरियम्। इन्धं मध्यगता सखीभिरभितो गमीलनाकेलिषु, व्यापिद्धा नयने मुग्वं च रुदती खे गर्हते कन्यका // 607. पञ्चाशतगहाणां मूल्यं ग्रैवेयकं नृपः / 'भारत्याः पद'भित्यस्याक्षिपत् कण्ठे कपर्दिनः // 608 इत्यादि पीलिम्पचित्तेन भूभुजा / स्थाप्यमानश्चिरं विश्वेश्वरः कविरुदाहरत् // 609 5 . 30 1B "न्यस्ततद्वाक्यं / 2 B पद। 3 B सर्वत्रापि च लक्ष्यते।