________________ 57 560 67 श्रीमोमतिलकमूरिविरचितं श्रीशैलमयबिम्बस्य मूर्त यश इव स्वकम् / दधे परिकरं तत्र मम्माणीयखनीभवम् / श्रीवाग्भटपुरे राजपितुर्नाम्ना विधापिते / प्रासादे स्थापयामास पार्श्वनाथं सविस्तरम् // चतुर्विंशतिमारामांस्तीर्थपूजाकृते नृपः / ग्रासवस्त्रादिकं चान्यद् देवलोकाय दत्तवान् / सप्तषष्टियुतामेकां कोटिं वाग्भटमत्रिराट् / तीर्थोद्धारे व्ययीचके प्रतिष्ठायां पुनः पृथक् // 628. अथाऽऽम्रभटनामा श्रीभृगुकच्छपुरावनौ / शकुनीचैत्यमुद्धर्तुमारेभे श्रेयसे पितुः // नर्मदादिमहातीर्थव्यन्तरोपज्ञबाधया / शिलान्यासे कृते गर्ता मिमेलामूलचूलिकम् // अकस्मान्मिलिते गर्ने व्यापृता भूमिशोधने / कलौ गुणा इव सतां छादिताः कर्मकारिणः॥ पापार्जनमिदं पुण्यच्छलेनेति दयापरः / सपुत्रमार्यो मत्रीशस्तत्र झम्पां स्वयं ददौ // सहसाऽतिशयात् तस्य सन्तुष्टा नर्मदासुरी / निराचकार प्रत्यूहं दीपिकेव तमोभरम् // वस्त्राभरणसन्मानैः सन्तोष्य स्थपतीनथ / शैलानुवादं प्रासादं कलशान्तमचीकरत् // सङ्घ सनृपतिं श्रीमद्धेमसूरिपुरस्सरम् / श्रीपत्तनादुपानीयाहच्चैत्यं प्रत्यतिष्ठिपत् / / सङ्घस्यातुच्छवात्सल्यं कृत्वा स्वीयं च मन्दिरम् / अर्थिभिमुपितं चक्रे ध्वजारोपाय सञ्चरन् // सुव्रतस्वामिनश्चैत्ये हर्षोत्कर्षेण धीसखः / ध्वजं महाध्वजोपेतं दत्त्वा लास्यमसूत्रयत् // आरांत्रिकावताराय भूभुजाऽभ्यर्थितः स्वयम् / भट्टाय तुरगं दत्त्वा जग्राहारात्रिकं करे // श्रीमत्कुमारपालेन ललाटे तिलके कृते / द्वासप्तत्या नृपैः क्लुप्तचामरच्छत्रविस्तरः // स्थिरीकृतारात्रिकोऽसौ तदैवागतबन्दिने / स्वबाहोः कङ्कणं हैमं ददौ राजपितामहः॥ बलात्कारेण वाहुभ्यां धृत्वा कुमरभूपतिः / नीराजना-माङ्गलिक्यप्रदीपं निरपीपदत् // श्रीसुव्रतजिनं नत्वा गुरूंश्च गुरुभक्तितः / शीघ्रनीराजनाकर्महेतुं पप्रच्छ भूपतिम् // द्यूतकारो यथा द्यूते शिरसाऽपि पणायते / अतः परं शिरोदाता तथार्थिभ्यो भवानपि // सस्नेहमिति राज्ञोक्ते तद्गुणोद्रेकरञ्जिताः / श्रीहेमगुरवः प्राहुर्विस्मृतान्यस्तुतिव्रताः // किं कृतेन न यत्र त्वं यत्र त्वं किमसौ कलिः / कलौ चेद् भवतो जन्म कलिरस्तु कृतेन किम् // अनुमोद्य मनोमोदमेदस्विमनसावुभौ / क्षमापती गतौ सङ्घसहितौ तौ यथागतम् // अथ तत्रगतानां श्रीप्रभूणां खल्पवासरैः / गतः प्रान्तदशामाम्रभटोऽचिन्तितबाधया // ज्ञात्वा विज्ञप्तितस्तादृग् स्वरूपं प्रभवोऽपि हि / बहुविघ्नं हि कल्याणं कार्मण'ध्यानलीलया // प्रतिष्ठावसरे चैत्यशिखरे नृत्यतस्तदा / मिथ्यादृशां देवतानां दोषं द्रुतमबूबुधन् / साधारः प्रयत्नेन रक्षणीयो यथातथा / दयालुतैव च परं जिनशासनजीवितम् // इति व्योमाध्वनोत्पत्य यशश्चन्द्रेण संयुताः / भृगुकच्छपरिसरं सम्प्राप्ताः प्रभवः क्षणात् // मूलं मिथ्याक्सुरीणां प्रभवः सैन्धवां सुरीम् / अनुनेतुं तस्थिवांसः कायोत्सर्गेण तत्क्षणम् // दर्पण सैन्धवा देवी सावहेलं मुखाम्बुजात् / आकृष्य दर्शयामास स्खजिह्वां हेमसूरये // सरोषमथ सूरीन्द्रः प्रक्षिप्योदूखले कणान् / ताडयामास मुशलप्रहारैर्गणिपाणिना // निविडं पीडिता देवी गृह्णन्ती दशनाङ्गुलीः / ब्रुवाणा रक्ष रक्षेति पपात प्रभुपादयोः॥ मुञ्चामात्यमिति प्रोक्ते नाहमेकैव दोषभाक् / ग्रस्तोऽयं सर्वदेवीभिः खण्डशः पूर्वमेव च // इत्यादिदीनवचनामप्येनां रोषदारुणाः / निगृह्य सूरयोऽमात्यं मोचयामासुराशु तम् // 1B कर्मेति। 2 B व्रत। 170 71, 72 750 77 580