________________ 19 520 22 23 24 25 530 कुमारपालदेवचरितम। काष्ठप्रासादविवरे तां ज्वलन्तीं यदाऽक्षिपन् / मत्री ममाधिभरुन त्याजयामाय नां ततः // चित्तेऽथ तर्कयामास मत्री मतिमतां वरः / प्रासादेऽस्मिन् काष्ठमये नैत्योऽयं सहटो महान् // ज्वलन्ती यद्यसौ वर्तिमित्थमादाय कर्हिचित् / रहः सञ्चारयेत् क्वापि दारणं दारुणि क्षणम् // मिथः संसज्य काष्ठौधैः प्रासादोऽयं महानपि / तदा भज्येत निर्भाग्यवतामिव मनोरथः // ततः कारयितव्योऽसौ प्रासादोऽश्ममयो मया / चिरं च भविनः सन्तु वर्धमाना' मनोरथाः // ब्रह्मचर्यैकभक्तत्वप्रमुखानथ मत्रिराट् / जीर्णोद्धाराय जग्राहाभिग्रहालिनपादयोः॥ बलीयः सर्वकार्येभ्यः स्वामिकार्य नियोगिनाम् / विमृशन्निति मत्रीशः स्कन्धावारमुपे यिवान् // अभ्यमित्रीणतां भेजे भेजे नृपवलैस्ततः / श्रीमानुदयनो योद्धं स्वयमुत्तस्थिवानथ // अरातिप्रेरितापारप्रहारभरजर्जरः / नीतः स्खशिविरे मत्री वण्ठैरुत्पाद्य यत्नतः॥ खामिकार्ये गतैः प्राणैर्धन्यं मन्योऽपि धीसखः / शुश्रुवे नेत्रयोरश्रु वारि निर्झरणादिव // किं किञ्चिदन्तःशल्यं ते मत्रिन् / दोयते हृदि / पृष्ठे समीपगैरित्थं सोऽप्युवाच सगद्गदम् // श्रीशत्रुञ्जयतीर्थे च चैये शकुनिकाभिधे / जीर्णोद्धारचिकीर्षोर्मे देवर्णमवशिष्यते // तैरूचे नन्दनौ मत्रिन् ! वाग्भटा-ऽऽग्रभटौ तव / गृहीताभिग्रही तीर्थ'द्वयीमुद्धरिष्यतः // पर्यन्ताराधनाकामी कृत्वा देवार्चनाविधिम् / मुनिमन्वेषयामास साक्षीकारं समाधये // मुनेरभावतो वण्ठं तद्वेषमुपनीय ते / तस्मै निवेदयामासुस्तन्मुनीभावतः स च // ... ललाटं घट्टयंस्तस्य पादयोरादिदेववत् / चक्रे तसाक्षिकी मण्याराधनां धिषणाधनः // .. मुदिते मत्रिणि प्राप्ते परलोकपथीनताम् / वण्ठः प्रधानरुक्तोऽपि यतिवेषं न चागुचत् // चन्दनेनेव निम्वद्रुर्मत्रिवासनया परम् / वासितः पालयामास चारित्रं विमलाचले // मत्रिणोऽभिग्रहग्राही श्रीकरीधारकः स च / व्यावृत्य शेषकार्यार्थी श्रीपत्तनमुपेयिवान् // राजकार्याकुलत्वेन प्रस्तावाप्राप्तितः स तु / न चाविःकृतवान् स्वाभिप्रायं सचिवपुत्रयोः॥ चिरंतपःकृशीभूतः पृष्टो देशालिकोऽन्यदा / वाग्भटा-ऽऽम्रभटयोस्तत्तीर्थोद्धारऋणं जगौ // गृहीताभिग्रहौ तौ तु तीर्थोद्धाराय तत्क्षणम् / पयामासतुः सूत्रधारान् शत्रुञ्जये गिरौ / वर्षद्वयेन निष्पन्ने प्रासादे प्रेषितः पुमान् / वर्दापनिकया लेभे जिह्वां हेममयीं ततः // क्षणेन पुनरागत्य द्वितीयो मानवोऽवदत् / प्रासादः स्फुटितो मत्रिन् ! इति वज्रोपमां गिरम् // ततश्च वाग्भटो धर्मसुभटः स्थिरकर्मधीः / आपृच्छय कुमरक्ष्मापं दृढाभिग्रहसाग्रहः // कपर्दिनि महामात्ये निजमुद्रां नियोज्य च / चतुःसहस्रवाहानां प्रतस्थे शकुनैः शुभैः // शत्रुञ्जयोपत्यकायां सामग्रीपूरणेक्षणी / श्रीवाग्भटपुरमिति नवं पुरमवासयत् // दृढे दृढतरे कर्मस्थायेऽपि विहिते सति / स्फुटिते बहुशश्चैत्ये मत्री पप्रच्छ शिल्पिनः / / प्रासादे सभ्रमे वायुः प्रविष्टो न निरैति यत / तेन स्फुटति देवायं पक्कवालङ्कपिण्डवत // भ्रमहीने पुनश्चैत्ये दूषणं निरपत्यता / श्रुत्वेति तत्त्वदृग् मत्री मन्त्रयामास चेतसा // धर्मसन्तानमेवास्तु गत्वरेण कुलेन किम् / श्रीमतां भरतादीनां पङ्कौ भवतु नाम मे // दीर्घदृश्या विचार्येति वाग्भटो निजवाग्भटः / भ्रमभित्त्योरन्तरालं शिलापूरमपूपुरत् // वर्षत्रयेण सञ्जति विहारे कलशावधौ / श्रीपत्तनादुपानीय श्रीमन्सद्धं चतुर्विधम् // श्रीविक्रमनृपाद्वर्ष रुद्रार्क(१२११)अमितर्गतैः / प्रतिष्ठाप्य ध्वजारोपं कारयामास मनिराद // 1B वर्षमान। 2 B नतैः। 3 B द्वितयी। 4 A नावधि। 5 B कलशावधि / 550 51