________________ 54 57 63 64 कुमारपालदेवचरितम् / 24. अन्यदा श्रीवीतभयपत्तनस्थलगर्भिताम् / ब्रह्मर्पिणा केवलिना कपिलेन प्रतिष्ठिताम् // विद्युन्मालिप्रतिमायाः प्रतिच्छन्देन मञ्जना / चण्डप्रद्योतभूपेन कारितां चेटिकाकृते // सप्तहस्तोच्छूितां जात्यचान्दनी कुमरो नृपः / देवाधिदेवप्रतिमां शुश्राव सुगुरोर्मुखात् // -त्रिमिर्विशेषकम् // गुरोर्वचनतः कार्यसिद्धिं निश्चित्य भूपतिः / तत्कालप्रहितानेकसामन्तैभक्तियुक्तितः // खानयित्वा वीतभयस्थलमुत्तमभाग्यतः / देवाधिदेवप्रतिमामव्यङ्गां निरकाशयत् // -युग्मम् // नरेन्द्रादेशतः सर्वग्रामाकरपुरादिषु / रथयात्राखिव खैरं जायन्ते स्म महोत्सवाः // भाविकैः क्रियमाणेषु पुरा सङ्गीतकादिषु / प्रभावनामयं विश्वं सृजन्ती प्रतिमाञ्चलत् // .. समानं तेन भूपेन कृतानुकृतमोत्सवा (1) / रथाधिरूढा प्रतिमा प्रापाणहिल्लपत्तनम् // खसौधासन्नभूपीठे प्रासादे स्फटिके नृपः / निवेश्य पूजयामास त्रिकालं कलिकीलकः // 625. अथ श्रीकुमरक्ष्मापः खजनुफललिप्सया / शत्रुञ्जयोजयन्तादितीर्थयात्रां प्रचक्रमे // श्रीहेमचन्द्रसूरीन्द्रैः श्रीकुमारनरेशितुः / सङ्घाधिपत्यतिलकं विदधे महतो महात् // देवालयस्य प्रस्थानमुहूर्ते स्थापिते सति / मिमिलुः परितः सङ्घा धर्मा इव चतुर्विधाः // कुमारपालभूपालो धन्यंमन्यमनोरथः / यावत् समग्रसामग्रीमव्यग्रमनसाऽकरोत् // तावद्देशान्तरायातं चरयुग्मं व्यजिज्ञपत् / श्रीकर्णस्त्वामुदेतीति नृपो डाहलदेशराद् // आकर्ण्य कर्णशूलाभमिति वाक्य मिलापतिः / खेददन्तुरभालो द्राक् मत्रिवाग्भटमभ्यधात् // . प्राप्तायां यदि सामग्यां धर्म कर्तुं न चाप्नुमः / निष्पन्नायां रसवत्यां तदिदं मुखवीक्षणम् // . शुशोच गुरुपादाने स्वमधन्यतम नृपः / स्वामिन् ! रङ्कस्य जीर्येत किं भुक्तिश्चक्रवर्तिनः // सूरीन्द्रा अपि तत्कालमाकलय्य लवादिकम् / आदिक्षन् द्वादशे यामे निवृत्तिस्ते भविष्यति // किंकर्तव्यतया मूढो यावदास्ते नराधिपः / तावनिर्णीतवेलायां चरयुग्ममुपागमत् // *दिवंगतश्च श्रीकर्ण इति सद्यो निवेदिते / नृपस्ताम्बूलमुत्सृज्य कथमित्यनुयुक्तवान् // निशि प्रयाणं कुर्वाणः श्रीकर्णः कुम्भिपृष्ठभाक् / जितकाशिमदावेशान्निद्रामुद्रितलोचनः // . कण्ठावलम्बिसौवर्णशृङ्खलेन गरीयसा / न्यग्रोधपादलग्नेनोलम्बितः पञ्चतामगात् // कलौ त्वमेव सर्वज्ञः स्तुवन्निति पुनः पुनः / अक्षेपेण महीपालो जिनयात्रामसूत्रयत् // दुकलाच्छादितक्षोणीतललीलागतिक्रमः / नपः श्रीहेमसूरीणां दत्तहस्तावलम्बनः॥ पदे पदे महादानसत्रागारमहोत्सवैः / धर्मैकच्छत्रतां चक्रे शक्रः कल्याणकेष्विव // युग्मम् // अकुतोभयताहूतपुरुहूतसमृद्धिभिः / किल सङ्घमिषात् स्वर्गों भूमण्डलमवातरत् // द्विधोपदिश्यमानाध्वा प्रभुश्रीहेमसूरिभिः / धन्धुकनगरं प्राप भूपः पापव्यपोहधीः // स्वयं विधापिते तत्र प्रभोर्जन्मगृहावनौ / सप्तदशहस्तमाने विहारे झोलिकाभिधे // नृपः प्रभावनां कुर्वन् संयमी स्वेन्द्रियानिव / उपसर्गकृतो विप्रांश्चके विषयताडितान् // युग्मम् // दृष्टवर्धापनापूर्व प्राप्तः शत्रुञ्जये गिरौ / दृष्टे नाभेयबिम्बे तु योगीवानन्दमुद्वहन् / दुःखक्षयश्च मे कर्मक्षयश्च भवतादिना' / दण्डकप्रणिधानेन विभालेन भुवं स्पृशन् // यावदास्ते नृपस्तत्र वास्तवस्तुतिसंस्तवी / समयज्ञस्तदोवाच चारणो वाक्यचञ्चुरः // विशेषकम् // 1 A. कलिकीलनः। * नोपलभ्यते श्लोकं एषः A आदर्श। 2 B भवतादिति। 3 B त्रिभालेन / 470 79