________________ श्रीसोमतिलकसूरिविरचितं आतङ्ककारणमकारणदारुणानां वक्रेण गालिगरलं निरगालि येषाम् / तेषां जटाधरफटाधरमण्डलानां श्रीयोगशास्त्रवचनामृतमुनिहीते // श्रुत्वेत्यमृतसंवादि वचः शान्तान्तरोष्मभिः / प्रभुभिर्द्विगुणा वृत्तिः पुनस्तस्मै प्रसादिता // 6.22 अन्यदा मागधौ कौचित् स्पर्धमानौ खविद्यया / सुराष्ट्रादेशतः प्राप्तौ श्रीपत्तनमहापुरम् // प्रमुभिः श्लाघ्यते यो हि स एव विभुरावयोः / मार्गोपक्षयदाताऽन्यो यस्तु हारयति ध्रुवम् // प्राप्त एकस्तयोर्मध्ये देशनावसरे प्रभोः / लक्ष्मीवन्तः पण्डिताश्च दृष्ट्वा स्पष्टमुदाहरत् // लच्छि वाणि मुहकाणि ए पइं भागी मुहमरखें। हेमसूरिअत्याणि जे ईसर ते पंडिया // द्वितीयो भूपतेश्चैत्ये विधायारात्रिकक्षणम् / नमस्सतः पृष्ठहस्ते दत्ते प्रभुभिरत्रवीत् // हेम तुहाला कर मरउं' जेहं' अच्चन्भूय रिद्धि / जे चापं हेठा मुहा ताहं ऊपहरी सिद्धि // अनुच्छिष्टेन भूपालो वचसा तस्य रञ्जितः / भूयोऽपि पाठयामास त्रिरुक्ते मागधोऽभणत् // पठिते पठिते लक्षं किं दास्यसि नृपस्ततः / लक्षत्रयं त्रिरुक्तत्वात् स तस्मै तत्क्षणाददात् // समये बहुपाठोऽपि श्रेयानिति स चारणः / सर्वार्थसाधकं मौनमिति व्यर्थममन्यत // 623. अन्यदा जगदानृण्यचिकीर्षाकौतुकी नृपः / प्रभुं विज्ञापयामास सद्यः सौवर्णसिद्धये // ततः श्रीदेवचन्द्राह्वान् सुगुरून् प्रभवोऽपि हि / श्रीसङ्घ-कुमरक्ष्मापविज्ञप्तिभ्यामजूहवन् // तेऽपि तीव्रताः किश्चित् सङ्घकार्यमिति द्रुतम् / यथाविधि विहारेण महात्मानः प्रतस्थिरे // प्रवेशोत्सवसामग्री भूपो यावत् प्रचक्रमे / सूरयः पौषधागारं शीघ्रं तावत् समाययुः // नृपतिप्रमुखानेकश्रावकैः सहितः प्रभुः / विदधे द्वादशावर्तवन्दनां विनयान्विताम् // 440 *तस्मिन्नवसरे श्राद्धः श्रीकपद्यपि मत्रिराट् / उत्तरासङ्गतो भूमिं प्रमाादत्त वन्दनाम् // *अदृष्टपूर्व आचारः क इत्युक्ते महीभुजा / सिद्धान्तविधिरेषोऽपीत्याह श्रीगुरुरुत्तरम् // 42 श्रुतश्रौतोपदेशौ तौ गुरुभिः सूरि-भूपती / सङ्ककार्य द्रुतं पृष्टौ न श्लथाः क्वापि धीधनाः॥ विसृज्य तावपि क्षिप्रं समां जवनिकान्तरे / ययाचतुः वर्णसिद्धिं निपत्य गुरुपादयोः॥ श्रीहेमसूरयः प्राहुर्भगवन् ! शैशवे मम / काष्ठभारिकतो वल्लीरसबिन्दुरुपाददे // तेनाभ्यक्तं ताम्रखण्डं संयोगाजातवेदसः / सुवर्ण तत्क्षणाज्जातं सिद्धनिष्ठीवनादिव // वल्लेरादिश्यतां तस्या नामसङ्केतनादिकम् / करोतु क्षितिपः क्षिप्रं धरणीमनृणामयम् // कुपिता गुरवः प्राहुः पापापसर दूरतः / न योग्य इत्यपास्सामु पादलग्नमिवोरगम् // अग्रे मुद्गरसप्रायविद्यया त्वमजीर्णभाक् / मन्दानेर्मोदकां विद्यां कथमेतां ददामि ते // शिष्यमाग्रहतस्तस्मादपथ्यादिव रोगिणम् / निवार्य सूरयो भूरिवैराग्या नृपमभ्यधुः // जिनचैत्यालंकृतक्ष्मा-मारिनिर्धटनादिभिः / सिद्धे लोकद्वये राजन् ! किमाधिक्यमभीप्ससि // 51. किं च ते जगदानृण्यकारिण्यै हेमसिद्धये / न भाग्यमस्ति तेनात्र युक्ता भावानुमोदना // 52 इत्यादिश्य झटित्येव विहारं सूरयो व्यधुः / तत्त्वकार्ये न मुह्यन्ति यतो निबिडबुद्धयः॥ 1B प्राप्तश्चैक। B आदर्श-१ तुहारा. 2 मरूं. 3 जह. 4 चंपा हिवा. 5 ताह. 2 A दास्यसि पतिस्ततः / + एतत्तारकाहि लोकदर्य नोपलभ्यते B आदर्श / 37 38. 39 41 //