________________ 409 कुमारपालदेवचरितम् / पुरा द्रव्ये हृते राजा मूषको यद् व्यपद्यत / तेने तेनास्य शुद्ध्यर्थ विहारो मूषकामिधः // 402 करम्मं भोजितः श्रेष्ठिवध्वा यत् त्रिदिनोपितः / करम्भाभिधया चैत्यं तस्याः श्रेयःकृतेऽभवत् // 103 सपावलक्षदेशे च जायया शिरसार्पिताम् / यूकां कोऽपि वणिक् पाणौ मृदित्वा खल्वमारयत् // 404 बमारिघोषणापञ्चकुलेनानीय पत्तने / भूभुजे सोऽर्पितस्तेन प्राप्यादेशं प्रभोरिति // 405 सर्वखेन तदीयेन तद्दण्डपदयुक्तितः / यूकाविहार इत्येवं कारितं कीर्तनं नवम् // युग्मम् // 406 स्तम्भतीर्थे यत्र चैत्ये प्रभोर्दीक्षाक्षणोऽभवत् / तत्र रत्नमयं बिम्बं जीर्णोद्धारश्च कारितः // 407 कुर्वतेति चतुश्चत्वारिंशदग्राणि भूभुजा / विधापितानि चैत्यानि चतुर्दशशतानि वै // 408 द्वासप्ततिलक्षमानपट्टकस्फाटनानुगे / विहिते रुदतीवित्तमोचने पण्डितैः स्तुतः // न यन्मुक्तं पूर्व रघु-नहुष-नाभाक-भरत__प्रभृत्युर्वीनाथैः कृतकृतयुगोत्पत्तिभिरपि / विमुश्चन् सन्तोषात् तदपि रुदतीवित्तमधुना कुमारक्ष्मापाल ! त्वमिह महतां मस्तकमणिः॥ श्रुत्वा श्रीहेमचन्द्रोऽपि परमानन्दमुद्वहन् / पुण्यानुमोदनापूर्व पपाठ नृपतेः पुरः // 'अपुत्राणां धनं गृह्णन् पुत्रो भवति पार्थिवः। त्वं तु सन्तोषतो मुश्चन् सत्यं राजपितामहः॥ 120. गण्डः श्रीसोमनाथस्य विहारे नृपतेर्वसन् / अपराधेन केनापि पदभ्रष्टो व्यधीयत // विषीदन् पत्तनं प्राप्य द्विारावलगकोपमः / षोढावश्यकपृतात्मा प्रभून् सेवेन्निरन्तरम् // एकदाऽवसरं प्राप्या चतुर्मासकपारणे' / विधाय द्वादशावर्तवन्दनामिदमब्रवीत् // चतुर्मासीमासीत् तव पदयुगं नाथ निकषा कषायप्रध्वंसाद् विकृतिपरिहारव्रतमिदम् / इदानीमभ्युद्यन्निजचरणनिर्लोठितकले जलक्लिन्नरन्नर्मुनितिलक ! वृत्तिर्भवतु नः॥ * श्रुत्वा काष्ठामिमां तस्य निजधर्मानुरोधिनीम् / प्रभुसङ्केततो राज्ञा पुनः स्वपदभाक् कृतः // 621.. राज्ये श्रीसिद्धभूभर्तुर्वामराशिर्द्विजः पुरा / पाण्डित्यस्पर्धया तत्र कासीतः समुपेयिवान् // 18 - असहिष्णुः प्रतिष्ठायाः प्रभूणां जातिवैरतः / प्रत्यक्षं सोऽन्यदाऽवोचत् 'भुक्तोगारसमं वचः // यूकालक्षशतावलीवलवलेल्लोलोल्ललत्कम्बलो दन्तानां मलमण्डलीपरिचयादुर्गन्धरुद्धाननः। . . नासावंशनिरोधनाद गिणगिणत्पाठप्रतिष्ठाविधिः सोऽयं हेमडसेवडः पिलपिलत्खल्लिः समागच्छति / / श्रुत्वाप्यानन्दतो माद्यचित्तैः प्रभुभिरौच्यत' / पूर्व विशेषणमिति किं नाधीतं धियांनिधे ! // अत इत्थं प्रयोक्तव्यं सोऽयं सेवडहेमडः / इति वैदुष्यकुन्ताग्रनुन्नो न्यूनमनाः कृतः॥ कुमारपालभूपालराज्ये शस्त्रवधो न हि / इति सोऽपि पदभ्रष्टो वर्तते कणभिक्षया // अन्यदाऽऽबालभूपालं योगशास्त्रं पदे पदे / पठ्यमानं समाकर्ण्य सकर्णः स्पष्टमब्रवीत् // 1 एतद्विदण्डान्तर्गतः पाठः पतितः B भादशैं। 1B पर्वणे। 2 A राज्ञः। 3 A भकोदार। 40 बलम 5 B मेदखिचित्तः। 6B राख्यत /