________________ श्रीसोमतिठकसूरिविरचितं 99 79 85 46 किंचिन्मुक्तिप्रदं देव ! तत्त्वमाविःकुरु प्रभो ! / विमृश्य गुरवोऽप्यूचुरलं पौराणिकोक्तिभिः // शम्भुमेव 'तदिदानी प्रकटीकरवाण्यहम् / जानीते तन्मुखेनैव मुक्तिमार्ग यथा मवान् // किमेतदपि जाघट्टि संशयाने नृपेऽवदत् / एकाग्रमानसावावां सर्व संघटते ततः // किन्तु कृष्णागुरुः क्षेप्यस्त्वया ध्यानं मया पुनः / तावद् विधेयं प्रत्यक्षः शम्भुर्भवति यावता // क्षणाद्दीपेषु शान्तेषु धूपधूमे च सर्पति / द्वादशात्मप्रकाशाभे महत्तेजसि जाग्रति // जलाधारोपरि क्षमापो जात्यजाम्बूनदद्युतिम् / चर्मचक्षुर्दुरालोकं ददर्शकं तपखिनम् // 76 आपादमस्तकं स्पृष्टा मुनिं निस्तन्द्रया दृशा / पञ्चाङ्गं चुम्बितक्षोणिः प्राञ्जलिः प्राह तं नमः॥ कृतार्थे नयने मेऽद्य जगतीश ! तवेक्षणात् / किन्तु मुक्तिप्रदं तत्त्वमुक्त्वा को कृतार्थय // 78 अथाविरासीद् दिव्या गी राजन्नेष महामुनिः / सर्वदेवावतारश्च सर्वज्ञश्च कलावसौ // तदुक्तः सरलः पन्था ज्ञातव्यो मुक्तिदायकः / शम्भाविति तिरोभूते तस्थौ चित्रमना नृपः // 380 // सूरीन्द्रोऽपि श्लथोन्मुक्तप्राणायामो' विकस्वरः / राजनित्यवदत् तावत् त्यक्तराज्यमहामदः // पादावधार्यतां जीव ! खामिन्निति वदन्नृपः / यत्कृत्यमादिशानम्रमौलिः प्राञ्जलिरभ्यधात् // तत्रैव मदिरा-मांसनियमं जीवितावधिम् / दत्त्वा क्षमापतेः प्राप्तो नाम्नाऽणहिल्लपत्तनम् // तत्र सर्वोपधाशुद्धसिद्धान्तोपनिषद्विरा / सम्यक्त्वं ग्राहयामास सम्प्रतेरिव भूपतेः // प्रबन्धान् यो ग शास्त्रा दी नाकर्ण्य द्वादशवतीम् / प्रत्यपादि स भूपालः पिपासुः सरसीमिव // त्रिषष्टेः शलाकापुंसां चरित्राणि गुरोर्मुखात् / श्रावं श्रावं जैनधर्ममेकच्छत्रमयं व्यधात् // 318. शुद्धसम्यक्त्वपूतात्मा महानवमीपर्वणि / कुमारपालभूपाल आमिगादिभिराख्यत // देवी कंटेश्वरी गोत्रदेवी खं भाव्यमीहते / एकं छागशतं चैको महिषः प्रतिपद्दिने // एतावदेव द्विगुणं द्वितीये दिवसे पुनः / तृतीये त्रिगुणं यावन्नवमे नव संगुणम् // तदुक्तं हेमसूरिभ्यस्तैः सानाऽभ्यर्थिता च सा / नवाहं यावदादत्स्व भोगं अगादिमूल्यजम् // 390 कपूरागुरुपीयूपः प्रीयन्ते खलु देवताः / राक्षसा एव तुष्यन्ति मांसशोणितकीकसैः // इत्थमुक्ताऽपि सामाऽसौ न तुतोष यदा सुरी / कीलनं यत्रणं मोरबन्धनं दर्शितं तदा // शान्ताऽप्यथैकदा चाटुमांसाहारमयाचत / भवनान्तस्ततस्तस्याः क्षेपिता महिषैडकाः // देवी कदर्थिता सर्वां रात्रि मूत्रमलस्रवैः / पुरोहितादयः सर्वे बभूवुर्मुद्रिताननाः // श्रीहेमसूरिध्यानेन स्वभावप्रीणिता सुरी / सांनिध्यकारिणी जाता यदूचे केनचिन्नृपः // 955 या पूर्व नवमीमहेषु महिषस्कन्धत्रुटत्कीकस- . _ 'नाट्कारैरजनिष्ट कर्णकटुकैः कण्टेश्वरी नश्वरी / सा पीयूषपराभुखी रसयति श्रीहेमचन्द्रप्रभो ीतं मारिनिवारि संप्रति नृपद्वारि स्थिता सुस्थिता // आज्ञा-बलेन वित्तेन त्रिधा वीरः स भूपतिः / अमारिघोषणां चक्रे वत्सराणि चतुर्दश // 19. सुपक्कानेकदा भूपो भुनानो घृतपुरकान् / मांसास्वादमनुस्मृत्य प्रभूनेत्य 'व्यजिज्ञपत् // युज्यते वा न वाऽस्माकं घृतपूरकभोजनम् / विज्ञाय तदभिप्रायं प्रभवोऽपि बभाषिरे // वणिग्-ब्राह्मणयोर्युक्तं जातिभावादपितम् / कृतमांस्पाकत्यागस्य क्षत्रियस्य तु वर्जितम् / / प्रायश्चित्ते ततस्तस्य द्वात्रिंशद्दन्तसंख्यया / विहारानेकबन्धेन द्वात्रिंशतमचीकरत // 401 1B तवेदानीं। 2 B प्राणायामविकस्वरः। 3 B क्षमापती प्राप्तौ। 4 A 'व्याहारे / 5 A प्रभूनित्यव्यजशपत् / 400