________________ 25 26 // श्रीसोमतिलकसूरिविरचितं चांगदेवस्ततः पृष्टः शिष्योऽमीषां भविष्यसि ? / ओमित्युक्ते ददौ माता गुरुभ्यस्तनयं मुदा // प्रस्थिता गुरवस्तीर्थयात्रायां पुनरागताः / चांगदेवं सहादाय भेजुः कर्णावतीं पुरीम् // तत्रास्मदीयगेहेऽसौ सत्रागार इव श्रियाम् / रममाणः सुखं तस्थौ भृङ्गवचन्दने वने // समेतः खगृहं श्रुत्वा पुत्रोदन्तं स चाचिगः / दर्शनावधिसंन्यस्तभोज्यः कर्णावतीं पुरीम् // श्रीदेवचन्द्रसूरीणां पौषधालयमागतः / सक्रोधोऽपि मनाक् चक्रे नमस्कारं विचक्षणः॥ तावदावर्जयांचक्रुर्गुरवो विविधोक्तिभिः / यावतोदयनामात्यस्तं नीत्वाऽभोजयद् गृहे // स दुकूलत्रिकं लक्षत्रयं पुत्रसमन्वितम् / तदुत्सङ्गे न्यधान्मत्री गौरवेण गरीयसा // चाचिगः स्माह मूल्येन पर्याप्तं मितवर्तिना / अनयॊ मत्सुतस्तस्मात् तव भक्तिर्गरीयसी // दत्तस्तुभ्यं मया पुत्रश्चाचिगेनेत्युदीरिते / परिरभ्य समाचष्ट निगदन् साधु साध्विति / / सखे मह्यं वितीर्णोऽसौ महा?ऽपि तवाङ्गजः / अपमानपदं भावी योगिमर्कटवन्नमन् // गुरुभिः पुनराप्तोऽसौ ग्राहितः सकलाः कलाः / रत्नं वैकटिकेनेव नेष्यतेऽनय॑तापदम् // इति सम्बोधितः सोऽपि गुरुभ्यः सुतमर्पयत्' / दीक्षामहोत्सवं प्रेम्णा स एवाचीकरत् पुनः // चकुस्तस्याभिधा हेमचन्द्रेति गुरवो मुदा / जातः क्रमेण शास्त्रान्धिकुम्भयोनिरसौं मुनिः॥ न्यस्तः सूरिपदे योग्य'-इत्यस्य चरितं नृपः / आकर्योदयनामात्यान्मुमुदे तद्गुणक्षणी // निष्कलङ्कगुणग्रामसन्ततप्रीणितान्तरः / भूपः श्रीहेमसूरीन्द्रान् सदैव हृदये दधौ // पूर्वोपकारतस्तादृग्गुणग्रामाच सङ्गतम् / तयोर्नित्यमशोभिष्ट माणिक्य-स्वर्णयोरिव // 15. एकदा भूभुजा सार्धमुपविष्टां वरस्त्रियम् / व्यावर्तिपत सूरीन्द्रा द्वारतोऽपि विलोक्य ताम् // अनीतिमिव राज्यार्थी प्रभूणां सङ्गमेच्छया / विससर्ज नरेन्द्रोऽपि तामन्तःपुरयोषिताम् // गुरवोऽप्यागमन् दृष्ट्वा तथा मिथ्यानिवेशतः / विरोधादामिगः प्राह पुरोधाः पुरतः प्रभोः॥ . ___ विश्वामित्र-पराशरप्रभृतयो ये चाम्बुपत्राशिन स्तेऽपि स्त्रीमुखपङ्कजं सुललितं दृष्ट्वैव मोहं गताः / आहारं सघृतं पयोदधियुत ये भुञ्जते मानवा . स्तेषामिन्द्रियनिग्रहः कथमहो दम्भः समालोक्यताम् // श्रुत्वेति प्रभवोऽप्याहुः स्वभावः प्राणिनामयम् / किन्तु विज्ञाततत्त्वानां विशेषः श्रूयतामिह // सिंहो बली द्विरदशूकरमांसभोजी संवत्सरेण रतिमेति किलैकवारम् / पारापतः खरशिलाकणभोजनोऽपि कामीभवत्यनुदिनं बत कोऽत्र हेतुः॥ इत्युक्तियुक्त्या सूरीन्द्रैः कृते तस्मिन्निरुत्तरे / 'अमी सूर्य न मन्यन्ते' केनाप्युक्ते पुनर्जगुः // अधामधामधामानं वयमेव स्वचेतसि / यस्यास्तव्यसने प्राप्ते त्यजामो भोजनोदके // पयोदपटलच्छन्ने नाश्नन्ति रविमण्डले / अस्तंगते तु भुञ्जाना अहो ! भानोः सुसेवकाः // इत्यं दुर्वावदूकानां मुखमुद्रापटीयसः / तानेव मेने भूपालः सर्वागममहोदधीन् // 617. पप्रच्छ चैकदैकान्ते भक्तिमन्धरया गिरा / कथंचिदपि जायेत चिरस्थायि यशो मम // विमृश्य प्रभवोऽप्यूचुर्विक्रमादित्यभूपवत् / जगदानृण्यतः सोमनाथचैत्योद्धृतरथ // ___1B मार्पयत्। 2 B योनिरय। 3 B भोजिनोऽपि / 32 37