________________ कुमारपालदेवचरितम् / यतः- 'कार्जु करेवा माणुसह बीजॅ मागु न अत्थि। कइ आपणि' पहु थाईई कइ पहुं कीजइ हत्थिं // उन्मूलनीयास्तत्त्वज्ञैर्धमद्विष्टा यथातथा / विमृश्येति च सूरीन्द्रा राजसङ्गतिकाङ्गिणः // कुमारपालभूभर्तुस्तस्थुषो मालवावनौ / स्कन्धावारमलंचक्रुर्जानाना आयतौ हितम् // राजप्राप्तिनिमित्तस्य वक्तृन् सूरीन् समागतान् / श्रीमानुदयनो गत्वा स्मारयामास भूपतेः॥ तेनाप्यनुमता जग्मुः सूरयो राजपर्षदि / आशीर्वादोक्तिवैचित्र्याद् विस्मितः 'स्माह भूपतिः // सदैव समुपेतव्यं देवतावसरक्षणे / इत्युक्ते सादरं राज्ञा सूरयस्तं बभाषिरे // भुञ्जीमहि वयं भैक्ष्यं जीणं वासो वसीमहि / शयीमहि महीपृष्ठे कुर्वीमहि किमीश्वरैः॥ भूपः प्रोवाच युष्माभिः परलोकहितेच्छया / मैत्र्यं विधातुमिच्छामि मधुना माधवो यथा // ‘एको मित्रं भूपतिर्वा यति'ति यदुच्यते / उभयोस्तद्धितार्थाय करयोः पुष्पदामवत् // 'अनिषिद्धमनुमत'मिति जानन्नदापयत् / अस्खलितप्रचाराय प्रभूणां सर्वद्यकम् // जाते गमागमे खैरं प्रस्तावोक्तिमनोहरैः / स्नेहोऽधिकमवर्द्धिष्ट वार्द्धि-चन्द्रमसोरिव // . एकदा च यशश्चन्द्रगणिना प्रत्युपेक्षितम् / आसनं हेमसूरीणां रजोहरणयुक्तितः // . अज्ञातपरमार्थेन तद् दृष्ट्वाऽयुजि भूभुजा / दशाभिः स्पृश्यते डिम्भ इव किं न्विदमासनम् // प्रभुभिर्जगदे जीवरक्षार्थो ह्ययमुद्यमः / सस्मेरमाह भूपोऽपि किमदृष्टैरुपक्रमः // बभाषिरे महात्मानो राजन् ! सैन्यं चतुर्विधम् / रिपावुपस्थिते सज्जीक्रियते पूर्वमेव वा // व्यवहारो यथा राज्ये सुखकारणमायतौ / ज्ञेयस्तथायं धर्मेऽपि सिद्धये धर्मचारिणाम् // इत्याद्यनेकयुक्तीभिर्मुदितो भूभृदेकदा / पप्रच्छोदयनामात्यं पितृवंशादिकं प्रभोः // 0615. शक्रपत्तनसंकाशे देशेऽर्धाष्टमनामनि / संकेतनमिव श्रीणां पुरं धन्धुककाभिधम् // तत्रास्ति मोढवंशीयश्चाचिगो व्यवहारिकः / तज्जाया पाहिणि म चतुःषष्टिकलागृहम् // चामुण्डाया गोत्रदेव्या आद्याक्षरपवित्रितः / तयोः पुत्रश्चांगदेवनामा जातोऽष्टवत्सरः॥ श्रीदेवचन्द्रसूरीन्द्राः पत्तनात् तीर्थयात्रया / प्रस्थितास्ते क्रमात् प्रापुर्धन्धुक्ककमहापुरम् // श्रीमोढवसतो तेषां तस्थुषां सोऽपि बालकः / सवयोभिः समं क्रीडन् समियाय सुलक्षणः // 302 चांगदेवस्ततः सिद्धाविव भाग्यपराक्रमः / सिंहासनोपरि स्थाष्णुनिषिद्यायामुपाविशत् // यदि क्षत्रकुले जातः 'सार्वभौमस्तदा नृपः / वणिग्-विप्रान्वये जातो महामात्यः पुनर्भवेत् // पुण्ययोगेन चेदस्य यतित्वमुपतिष्ठते / दुर्युगेऽपि तदाऽमुष्मिस्तुर्य युगमुपानयेत् // धात्वेति धर्मवन्मुख्यव्यवहारिभिरावृताः / सूरयस्तत्पितुर्गेहं जग्मुर्जङ्गमतीर्थवत् // पतौ देशान्तरस्थेऽपि पाहिणिधर्मदीपिका / आनन्दमेदुरं चके सा संघ स्वागतादिमिः // 307 ज्ञात्वा समागमे हेतुं गृहे पतेरभावतः / विषादानन्दसम्मिश्रां सुदती सा दशामगात् // धन्याऽस्मि यस्या मे गेहे समीयुः पुरुषा अमी। मिथ्यादृष्टिः पतिः किन्तु तादृशोऽपि गृहे न हि // 309 किं करोमि कथं वक्त्रं दर्शयामि गुरोः पुरः / ध्यायन्तीति गुरुं नत्वा तस्थौ किंचिदवाम्मुखी // 310 कैश्विदूचे शुभे ! तावन्निजदोषं निराकुरु / त्वं 'देहि तनयं शेषकार्ये पतिः प्रमाणता // 1B आदर्श पाठमेदाः-१ कन्ज. 2 बीजउ. 3 मग्गु, 4 आथि. 5 आपुणि. 6 प्रभु. 7 थाइय. प्रभु.. हाथि। 1B श्रीमानुदय[1] गत्वा च। 2 B विस्मिताश्चाह / 3 B मनोरसः। 4B व्यावहारिकः। 5A सार्वभूप। 6Bधनवन्। 7 Bदेह / 301 306 308